________________
आगम
(०३)
प्रत
सूत्रांक [७५१]
दीप
अनुक्रम
[९६२
-९६३]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) उद्देशक [-], मूलं [७५१]
स्थान [१०],
[सम्यक्त्वावर करागद्वेष मोहाज्ञानानि यस्यापगतानि भवंति आज्ञाया रोचयन् स खलु आज्ञारुचिर्भवति ॥ १ ॥] 'सुतबीयरुमेव 'ति इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण-आगमेन रुचिर्यस्य स सूत्ररुचिः, यो हि सूत्रागममधीयानस्तैनैवाङ्गप्रविष्टादिना सम्यक्त्वं लभते गोविन्दवाचकवत् स सूत्ररुचिरिति भावः, अभिहितं च--"जो सुत्तमहिजंतो सुरण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व सो सुत्तरुइत्ति नायब्वो ॥ १ ॥” इति [यः सूत्रमधीयानः श्रुतेनावगाहते तु सम्यक्त्वं अंगेनांगबाह्येन वा स सूत्ररुचिरिति ज्ञातव्यः ||१|| ] तथा बीजमिव बीजं यदेकमध्यनेकार्थप्रतिबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, यस्य ह्येकेनापि जीवादिना पदेनावगतेनानेकेषु पदार्थेषु रुचिरुपैति स बीजरुचिरिति भावः, गदितं च "एगपएणेगाई पयाई जो पसरई उ सम्मत्ते । उदन्व तिलबिंदू सो बीयरुइति नायव्व ॥ १ ॥" [एकपदेनानेकानि पदानि योऽवगाहते लभते च सम्यक्त्वं उदके इव तैलविन्दुः स बीजरुचिरिति ज्ञातव्यः ॥ १ ॥ ] इति, 'एवे 'ति समुच्चये, तथा 'अभिगमवित्थाररुद' ति इहापि प्रत्येकं रुचिशब्दः सम्बन्धनीयः, तत्राभिगमो-ज्ञानं ततो रुचिर्यस्य सोऽभिगमरुचिः, येन ह्याचारादिकं श्रुतमर्थतोऽधिगतं भवति सोऽभिगमरुचिः, अभिगमपूर्वकत्वात्तचेरिति भावः, गाथाऽत्र - "सो होइ अभिगमरुई सुअनाणं जस्स अत्थओ दिहं । एक्कारस अंगाई पइन्नयं दिट्टिवाओ य ॥ १ ॥” इति [सोऽभिगमरुचिर्भवति येनार्थतः श्रुतज्ञानं दृष्टं एकादशांगानि प्रकीर्णकानि दृष्टिवादश्च ॥ १ ॥] तथा विस्तारो - व्यासस्ततो रुचिर्यस्य स तथेति, येन हि धर्मास्तिकायादिद्रव्याणां सर्वपर्यायाः सर्वैर्नयप्रमाणैर्ज्ञाता भवन्ति स विस्ताररुचिः, ज्ञानानुसारिरुचित्वादिति, न्यगादि च-- “ दव्वाण सव्वभावा सव्वपमाणेहिं
For Fans Only
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३]
~ 1010~
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः