________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७५०]
(०३)
प्रत सूत्रांक [७५०]
यति निदर्शयति 'उवदंसेइति सकलनययुक्तिभिरिति ३, 'चाउवण्णाइण्णे'त्ति चत्वारो वर्णाः-श्रमणादयः समा&ाहता इति चतुर्वर्णं तदेव चातुर्वर्ण्य तेनाकीर्णः-आकुलश्चातुर्वर्ण्याकीर्णः अथवा चत्वारो वर्णाः-प्रकारा यस्मिन् स तथा,
दीर्घत्वं प्राकृतत्वात् , चतुर्वर्णश्चासावाकीर्णश्च ज्ञानादिभिर्महागुणैरिति चतुर्वर्णाकीर्णः, 'चउबिहे देवे पन्नवेह'त्ति वन्दनकुतूहलादिप्रयोजनेनागतान् प्रज्ञापयति-जीवाजीवादीन् पदार्थान् बोधयति-सम्यक्त्वं ग्राहयति शिष्यीकरोतीतियावत् , लोकेभ्यो वा तान् प्रकाशयति, 'अणंते' इत्यादी सूत्रे यावत्करणात् 'निवाघाए निरावरणे कसिणे पडिपुण्णे | | केवलवरनाणदसणे'त्ति दृश्यमिति, 'सदेवे'त्यादि, सह देवैः-वैमानिकज्योतिर्मनुजैः-नरैरसुरेश्व-भवनपतिव्यन्तरैश्च वर्तत इति सदेवमनुजासुरस्तत्र लोके-त्रिलोकरूपे 'उराल'त्ति प्रधानाः कीर्तिः सर्वदिग्व्यापी साधुवादः वर्ण:-एकदिव्यापी शब्द:-अर्द्धदिग्व्यापी श्लोकः-तत्तत्स्थान एव श्लाघा एषां द्वन्द्वः तत एते 'परिगुब्बंति' परिगुप्यन्ति व्याकु
लीभवन्ति सततं भ्रमन्तीत्यर्थः, अथवा परिगूयन्ते-गूधातोः शब्दार्थत्वात् संशब्द्यते इत्यर्थः, पाठान्तरतः परिभ्राम्यन्ति, है कथमित्याह-'इति खल्वि'त्यादि, इतिः-एवंप्रकारार्थः खलुक्यालङ्कारे ततश्चैवंप्रकारो भगवान् सर्वज्ञानी सर्वदशी
सर्वसंशयव्यवच्छेदी सर्वबोधकभाषाभाषी सर्वजगज्जीववत्सलः सर्वगुणिगणचक्रवत्ती सर्वनरनाकिनायकनिकायसेवितचरण४ युग इत्यर्थः, 'महावीर' इति नाम, एतदेवावर्त्यते श्लाघाकारिणामादरख्यापनार्थमनेकत्वख्यापनार्थ चेति, 'आघवेई'&ा त्यादि पूर्ववत् । स्वमदर्शनकाले भगवान सरागसम्यग्दर्शनीति सरागसम्यग्दर्शनं निरूपयवाह
दीप अनुक्रम [९५९
454554
-९६१]
dilanmitraram
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~1008~