________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [१०], उद्देशक [-], मूलं [७५०]
(०३)
प्रत सूत्रांक [७५०]
श्रमण इति तथा सिद्धार्थाभिधानो व्यन्तरदेवस्तन्निग्रहार्थमुद्दधाव, बभाण च-अरे रे शूलपाणे अप्रार्थितप्रार्थक हीनपुण्यचतुर्दशीक श्रीहीधृतिकीर्तिवर्जित दुरन्तप्रान्तलक्षण! न जानासि सिद्धार्थराजपुत्रं पुत्रीयितनिखिलजगजीवं जीवितसममशेषमुरासुरनरनिकायनायकानामेनं च भवदपराधं यदि जानाति त्रिदशपतिस्ततस्त्वां निर्विषयं करोतीति, श्रुत्वा। चासौ भीतो द्विगुणतरं क्षयमयति स्म, तथा सिद्धार्थश्च तस्य धर्ममचकथत्, स चोपशान्तो भगवन्तं भक्तिभरनिर्भरमानसो गीतनृत्तोपदर्शनपूर्वकमपूपुजत्, लोकश्च चिन्तयाञ्चकार-देवार्यकं विनाश्येदानी देवः क्रीडतीति, स्वामी च देशोनांश्चतुरो यामानतीव तेन परितापितः प्रभातसमये मुहूर्चमात्रं निद्राप्रमादमुपगतवान् तत्रावसरे इत्यर्थोऽधवा छद्म-31 स्थकाले भवा अवस्था छद्मस्थकालिकी तस्यां 'अंतिमराइयंसित्ति अन्तिमा-अन्तिमभागरूपा अवयवे समुदायोपचारात् सा चासो रात्रिका चान्तिमरात्रिका तस्यां रात्रेरवसान इत्यर्थः महान्तः-प्रशस्ताः स्वप्ना-निद्राविकृतविज्ञानप्रतिभातार्थविशेषास्ते च ते चेति महास्वमास्तान् 'स्वपने स्वापक्रियायां 'एगं चेति चकार उत्तरस्थमापेक्षया समुच्चयार्थः 'महाघोरं' अतिरौद्र रूपम्-आकारं 'दीसं ज्वलितं दृप्त वा-दर्पवद्धारयतीति महाघोररूपदीधधरस्तद्वधरो वा, प्राकृतत्वादुत्तरत्र विशेषणन्यासः, तालो-वृक्षविशेषस्तदाकारो दीर्घत्वादिसाधात् पिशाचो-राक्षसस्तालपिशाचस्तं 'पराजित निराकृतमात्मना १ 'एगं च'त्ति अन्यं च 'पुंसकोकिलगंति पुमांश्चासौ कोकिलश्च-परपुष्टः पुंस्कोकिलकः स च किल कृष्णो भवतीति शुक्लपक्ष इति विशेषितः २ 'चित्तविचित्तपक्ख'चि चित्रेणेति-चित्रकर्मणा विचित्री-विविधवर्णविशेषवन्तौ पक्षौ यस्य स तथा ३ 'दामदुर्गति मालाद्वयं ४ 'गोवग्गं'ति गोरूपाणि ५ 'पउमसर'त्ति प
%ALE
दीप अनुक्रम [९५९
CAN
-९६१]
ainatorary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] “स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~ 1006~