________________
आगम
(०२)
सूत्रकृताक्रे २ श्रुतस्क न्धे शीलाङ्गीयावृत्तिः
॥४२२॥
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७९], निर्युक्ति: [ २०५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
'असूर्येषु' नित्यान्धकारेषु किल्बिषप्रधानेषु नरकस्थानेषु ते समुत्पद्यन्ते, ते च देवा नारका वा त्रसत्वं न व्यभिचरन्ति तेषु च यद्यपि द्रव्यप्राणातिपातो न संभवति तथापि ते भावतो यः प्राणातिपातस्तद्विरतेर्विषयतां प्रतिपद्यन्ते ततोऽपि च देवलोकाच्युता नरकोद्धृताः क्लिष्टपञ्चेन्द्रियतिर्यक्षु तथाविधमनुष्येषु चैडमूकतया समुत्पद्यन्ते, तथा 'तमोख्वत्ताए' चि अन्धवधिरतया प्रत्यायान्ति, | ते चोभयोरप्यवस्ययोस्त्रसत्वं न व्यभिचरन्ति इत्यतो न निर्विषयं प्रत्याख्यानम्, एतेषु च द्रव्यतोऽपि प्राणातिपातः संभवतीति ।। साम्प्रतं प्रत्यक्षसिद्धमेव विरतेर्विषयं दर्शयितुमाह-'भगवं च णं उदाह' रित्यादि, भगवानाह यो हि प्रत्याख्यानं गृह्णाति तसादीर्घायुष्काः 'प्राणाः प्राणिनः, ते च नारकमनुष्यदेवा द्वित्रिचतुःपञ्चेन्द्रियतिर्यश्चश्च संभवन्ति, ततः कथं निर्विषयं प्रत्याख्यानमिति ?, शेषं सुगमं यावत् 'णो णेयाउए भवइ' ।। एवमुत्तरसूत्रमपि तुल्यायुष्क विषयं समानयोगक्षेमलाद्व्याख्येयं ॥ तथाऽल्पा|युष्कसूत्र मप्यतिस्पष्टत्वात्सूत्रसिद्धमेव, इयांस्तु विशेषो — यावत्ते न त्रियन्ते तावत्प्रत्याख्यानस्य विषयस्वसेषु वा समुत्पन्नाः सन्तो, विषयतां प्रतिपद्यन्त इति ॥ पुनरपि श्रावकाणामेव दिखतसमाश्रयणतः प्रत्याख्यानस्य विषयं दर्शयितुमाह- 'भगवं च णमित्यादि सुगमं यावत् 'वयं णं सामाइयं देसावकासिगं ति देशेऽवकाशो देशावकाशः तत्र भवं देशावकाशिकं, इदमुक्तं | भवति - पूर्वगृहीतस्य दिग्नतस्य योजनशतादिकस्य यत्प्रतिदिनं संक्षिप्ततरं योजनगव्यूतिपत्तनगृह मर्यादादिकं परिमाणं विधत्ते | तद्देशावका शिकमित्युच्यते । तदेव दर्शयति- 'पुरत्या पायीण'मित्यादि, 'पुरस्थि' चि प्रातरेव प्रत्याख्यानावसरे दिगाश्रितमेवंभूतं प्रत्याख्यानं करोति, तद्यथा - 'प्राचीनं' पूर्वाभिमुखं प्राच्यां दिश्येतावन्मयाऽय गन्तव्यं, तथा प्रतीचीनं प्रतीच्यामपरस्यां दिशि तथा दक्षिणाभिमुखं दक्षिणस्सामेवमुदीच्यां दिश्येतावन्मयाऽद्य पञ्च योजनमात्रं तदधिकमूनतरं वा गन्तव्यमित्येवंभूतं
For Parts Only
~848~
७ नाक
न्दीयाध्य.
||४२२॥
wor