SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७६], निर्युक्ति: [ २०५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः - विपाकानुभवेन वेदनं तथेह त्रसनाम प्रत्येकनामेत्यादिकं नामकर्माभ्युपगतं भवति त्रसवेन यत्परिषद्धमायुष्कं तद्यदोदयप्राप्तं भवति, तदा त्रससंभारकृतेन कर्मणा त्रसा इति व्यपदिश्यन्ते, न तदा कथञ्चित्स्थावरत्वव्यपदेशः, यदा च तदायुः परिक्षीणं भवति, णमिति वाक्यालङ्कारे, त्रसकायस्थितिकं च कर्म यदा परिक्षीणं भवति, तच्च जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतः सातिरेक सहस्रदयसागरीपमपरिमाणं तदा ततस्त्रसकाय स्थितेरभावात्तदायुष्कं ते परित्यजन्ति, अपराण्यपि तत्सहचरितानि कर्माणि परित्यज्य स्थावरलेन प्रत्यायान्ति, स्थावरा अपि स्थावरसंभारकृतेन कर्मणा तत्रोत्पद्यन्ते, स्थावरादिनाम च तत्राभ्युपगतं भवति, अपराण्यपि तत्सहचरितानि सर्वात्मना त्रसखं परित्यज्य स्थावरलेनोदयं यान्ति इति, एवं च व्यवस्थिते कथं स्थावरकार्यं व्यापादयतो गृहीतत्र सकायप्राणातिपातनिवृत्तेः श्रावकस्य प्रवभङ्ग इति १ । किंचान्यत् – 'धावराज्यं च णमित्यादि, यदा तदपि स्थावरायुष्कं परिक्षीणं भवति तथा स्थावरकायस्थितिश्च सा जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टोऽनन्तकालमसंख्येयाः पुद्गलपरावर्ता इति, ततस्तत्कायस्थितेरभावाचदायुष्कं परित्यज्य 'भूयः पुनरपि पारलौकिकलेन स्थावरकायस्थितेरभावात् जसलेन सामर्थ्यात्प्रत्यायान्ति तेषां च त्रसानामन्वर्थिकान्यभिधानान्यभिधित्सुराह - 'ते पाणावी' त्यादि, ते त्रससंभारकृतेन कर्मणा समुत्पन्नाः सन्तः सामान्यसंज्ञया प्राणा अप्युच्यन्ते, तथा विशेषतः 'बस भयचलनयो रिति धात्वर्थानुगमाद्भयचलनाभ्यामुपपेताखसा अप्युच्यन्ते, तथा महान् कायो येषां ते महाकायाः योजन लक्षप्रमाणशरीरविकुर्वणात् तथा चिरस्थितिका अप्युच्यन्ते, भवस्थित्यपेक्षया त्रयस्त्रिंशत्सागरोपमायुष्कसद्भावात्, ततस्त्र सपर्यायव्यवस्थितानामेव प्रत्याख्यानं तेन गृहीतं, न तु स्थावरकायत्वेन व्यवस्थितानामपीति । यस्तु नागरकदृष्टान्तो भवतोपन्यस्तः असावपि दृष्टान्तदाष्टन्तिकयोरसाम्यात्केवलं भवतोऽनुपासितगुरुकुलवासित्वमावि Eucation International For Pasta Lise Only ~ 833~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy