________________
आगम
(०२)
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७५], निर्युक्ति: [२०५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
नगरद्वाराणि तेषां च तत्कालात्ययान्न निर्गमनमभूत्, ततस्ते भयसंभ्रान्ता नगरमध्य एवात्मानं गोपयित्वा स्थिताः, ततो निष्क्रान्ते कौमुदीप्रचारे राज्ञाऽऽरक्षिकाः समाहूयादिष्टाः – यथा सम्यक् निरूपयत यूयं नात्र नगरे कौमुदीचारे कश्चित्पुरुषो व्यवस्थित १ इति, तैरप्यारक्षिकैः सम्यग् निरूपयद्भिरुपलभ्य पणिकपुत्रवृचान्तो यथावस्थित एव राज्ञे निवेदितः राज्ञाऽप्याज्ञाभङ्गकुपितेन तेषां षण्णामपि वधः समादिष्टः, ततस्तत्पिता पुत्रवधसमाकर्णन गुरुशोकविहलोऽकाण्डा पतितकुलक्षयोद्भ्रान्तलोचनः किंकर्तव्यतामूढतया गणितविधेया विधेयविशेषो राजानमुपस्थितोऽवादीच्च गद्गदया गिरा — यथा मा कृथा देवास्माकं कुलक्षयं, गृह्यतामिदमस्मदीयं कुलक्रमायातं स्वभुजोपार्जितं प्रभूतं द्रविणजातं, मुध्यतां मुच्यताममी पट् पुत्राः क्रियतामयमस्माकमनुग्रह इति । एवमभिहितो राजा तद्वचनमनाकर्ण्य पुनरपि सविशेषमादिदेश, असावपि वणिक्सर्ववधाशङ्की सर्वमोचनानभिप्राय राजानमवेत्य पञ्चानां मोचनं याचितवान् तानप्यसौ राजा न मोक्तुमना इत्येवमभिगम्य चतुर्मोचनकृते सादरं विशप्तवान् तं तथापि राजा तमनादृत्य कुपितवदन एव स्थितः, ततस्त्रयाणां विमोचने कृतादरस्तत्पिताऽभूत्, तानप्यमुञ्चन्तं राजानं ज्ञाता गणितखापराधो द्वयोर्मोचनं प्रार्थितवान् तत्राप्यवज्ञाप्रधानं नृपतिमवगम्य ततः पौरमह चमसमेतो राजानमेवं विज्ञप्तवान्, तद्यथादेवाकाण्ड एवास्माकं कुलक्षयः समुपस्थितः, तस्माच्च भवन्त एव त्राणायालम्, अतः क्रियतामेकमत्पुत्रविमोचनेन प्रसाद इति भणिखा पादयोः सपौरमहत्तमः पतितो राज्ञापि संजातानुकम्पेन मुक्तस्तदेको ज्येष्ठपुत्र इति । तदेवमस्य दृष्टान्तस्य दार्शन्तिकयोजनेयं, तद्यथा-साधुनाऽभ्युपगतसम्यग्दर्शनमवगम्य श्रावकमखिलप्राणातिपातविरतिग्रहणं प्रति चोदितोऽप्यशक्तितया यदा न सर्वप्राणातिपातविरतिं प्रतिपद्यते, यथाऽसौ राजा वणिजात्यर्थं विज्ञापितोऽपि न पडपि पुत्रान् मुमुक्षति, नापि पञ्चचतुस्त्रिद्वि
Eaton International
For Parts Only
~ 831~