________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-३६], नियुक्ति: [२००] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक ||३६||
सूत्रकृताले २ श्रुतस्क- न्धे शीलाकीयावृत्तिः ॥३९७॥
एeeceae
दीप अनुक्रम [७७३]
महान्तं समावज्ये तेन च पुण्यस्कन्धेनारोप्याख्या देवा भवन्त्याकाशोपगाः(मा.), सर्वोत्तमा देवगतिं गच्छन्तीत्यर्थः ॥२९॥ तदेवं बुद्धेन दानमूला शीलमूलश्च धर्मः प्रवेदितः, तद् 'एहि आगच्छ बौद्धसिद्धान्तं प्रतिपद्यस्खेत्येवं भिक्षुकैरभिहितः सन्नाईकोऽना- ध्ययन. कुलया दृष्ट्या तान्वीक्ष्योवाचेदं वक्ष्यमाणमित्याह-'अजोगरूव'मित्यादि, 'इह' अस्मिन् भवदीये शाक्यमते 'संयताना' भिक्षूणां यदुक्तं प्राक्तदत्यन्तेनायोग्यरूपम्-अघटमानकं, तथाहि-अहिंसार्थमुत्थितस्य त्रिगुप्तिगुप्तस्य पञ्चसमितिसमितस्य सतः प्रबजितस्य सम्यगज्ञानपूर्विका क्रियां कुर्वतो भावशुद्धिः फलवती भवति, तद्विपर्यस्तमतेस्वज्ञानावृतस्य महामोहाकलीकतान्तरा-18 | स्मतया खलपुरुषयोरपि विवेकमजानतः कुतस्त्या भावशुद्धिः, अतोऽत्यंतमसाम्प्रतमेतदुद्धमतानुसारिणां यत्खलवुझ्या पुरुषस्य | शूलपोतनपचनादिक, तथा बुद्धस्य पिन्नाकबुद्धया पिशितभक्षणानुमत्यादिकमिति । एतदेव दर्शयति-प्राणानाम् इन्द्रियादीना-1 मपगमेन तुशब्दस्यैवकारार्थखात्पापमेव कृला रससातागौरवादिगृद्धास्तदभावं व्यावर्णयन्ति, एतच तेषां पापाभावव्यावर्णनम् | 'अयोध्य' अयोधिलाभार्थं तयोईयोरपि संपद्यते, अतोऽसाध्वेतत् । कयोयोरित्याह-ये वदन्ति पिण्याकबुद्धया पुरुषपाकेऽपि |पातकाभावं, ये च तेभ्यः शृण्वन्ति, एतयोईयोरपि वर्गयोरसाध्वेतदिति । अपिच-नाज्ञानावृतमूढजने भावशुद्ध्या शुद्धिर्भवति, यदि च स्यात्संसारमोचकादीनामपि तर्हि कर्मविमोक्षः स्यात् , तथा भावभुद्धिमेव केवलामभ्युपगच्छतां भवतां शिरस्तुण्डमुण्डनपिण्डपातादिकं चैत्यकर्मादिकं चानुष्ठानमनर्थकमापद्यते, तसानैवंविधया भावशुद्ध्या शुद्धिरुपजायत इति स्थितम् ॥ ३०॥ परपक्षं यिखाऽऽर्द्रका स्वपक्षाविर्भावनायाह-ऊर्ध्वमधस्तियक्षु या दिशः प्रज्ञापकादिकास्तासु सर्वाखपि दिक्षु त्रसानां स्थावराणां । च जन्तूनां यत्रसस्थावरखेन जीवलिङ्ग-चलनस्पन्दनाङ्कुरोद्भवच्छेदम्लानादिकं तद्विज्ञाय अतो 'भूताभिशङ्कया'जीवोपमर्दोत्र
~798~