________________
आगम
(०२)
प्रत
सूत्रांक
||२६||
दीप
अनुक्रम [७३०]
“सूत्रकृत्”
अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ५ ], उद्देशक [ - ], मूलं [गाथा - २६], निर्युक्तिः [१८३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०२ ], अंग सूत्र - [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
स्तुत्य गच्छति । न योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि ॥ १ ॥” इति दृष्टान्तदार्शन्तिकयोरसाम्यात्, तथाहि - ताप्यमानं जलं प्रतिक्षणं क्षयं गच्छेत् प्रज्ञा तु विवर्द्धते यदिवा ठोपोपलब्धेरव्याहृतमग्नित्वं तथा वनविषयेऽपि पूर्वमर्यादाया अनतिक्रमाद्योजनोच्यवनाभावः, तत्परित्यागे चोत्तरोत्तरं वृद्ध्या प्रज्ञाप्रकर्षगमनवद्योजनशतमपि गच्छेदित्यतो दृष्टान्तदार्शन्तिकयोरसाम्यादेतन्नाशङ्कनीयमिति स्थितम्, प्रज्ञावृद्धेश्व बाधकप्रमाणाभावादस्ति सर्वज्ञत्वप्राप्तिरिति । यदिवा अञ्जनभृतसमुद्गकदृष्टान्तेन जीवा| कुलत्वाज्जगतो हिंसाया दुर्निवारत्वात्सिद्ध्यभावः, तथा चोक्तम्- "जले जीवाः स्थले जीवा, आकाशे जीवमालिनि । जीवमालाकुले लोके, कथं भिक्षुरहिंसकः १ ॥ १ ॥ इत्यादि, तदेवं सर्वस्यैव हिंसकत्वात्सिद्ध्यभाव इति, तदेतदयुक्तं, तथाहि सदोपयुक्तस्व | पिहिताश्रवद्वारस्य पञ्चसमितिसमितस्य त्रिगुप्तिगुप्तस्य सर्वथा निरवद्यानुष्ठायिनो द्विचत्वारिंशद्दोषरहितभिक्षाभुज ईर्यासमितस्य | कदाचिद्रव्यतः प्राणिव्यपरोपणेऽपि तत्कृतबन्धाभावः, सर्वथा तस्यानवद्यत्वात्, तथा चोक्तम् - "उच्चालियंमि पाए, "इत्यादि प्रतीतं, | तदेवं कर्मबन्धाभावात्सिद्धेः सद्भावोऽव्याहतः, सामय्यभावादसिद्धिसद्भावोऽपीति ॥ २५ ॥ साम्प्रतं सिद्धानां स्थाननिरूपणायाह- ' णत्थि सिद्धी' त्यादि, सिद्धेः- अशेषकर्मच्युतिलक्षणाया निजं स्थानं-ईषत्प्राग्भाराख्यं व्यवहारतो निश्वयतस्तु तदुपरि योजनकोशषभागः, तत्प्रतिपादकप्रमाणाभावात्स नास्तीत्येवं संज्ञां नो निवेशयेत् यतो बाधकप्रमाणाभावात्साधकस्य चागमस्य सद्भावात्तत्सत्ता दुर्निवारेति । अपिच-अपगताशेषकल्मषाणां सिद्धानां केनचिद्विशिष्टेन स्थानेन भाच्यं तच्चतुर्दशरज्ज्वात्मकस्य लोकस्याग्रभूतं द्रष्टव्यं न च शक्यते चक्कुमाकाशवत्सर्वव्यापिनः सिद्धा इति, यतो लोकालोकव्याप्याकाशं, न चालोकेऽपरद्रव्यस्य संभवः, तस्याकाशमात्ररूपत्वात्, लोकमात्रव्यापित्वमपि नास्ति, विकल्पानुपपत्तेः तथाहि - सिद्धावस्थायां तेषां व्यापि
Educatin internation
For Parts Only
~767~