SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||१९|| दीप अनुक्रम [७२३] “सूत्रकृत्” - अंगसूत्र- २ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ५ ], उद्देशक [ - ], मूलं [गाथा - १९], निर्युक्तिः [१८३] मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०२], अंग सूत्र- [ ०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः वेदनानिर्जरे च क्रियाऽक्रियायचे, ततस्तत्सद्भावं प्रतिषेधनिषेधपूर्वकं दर्शयितुमाह-क्रिया-परिस्पन्दलक्षणा तद्विपर्यस्ता वक्रिया, ते द्वे अपि 'न स्तो' न विद्येते, तथाहि -सांख्यानां सर्वव्यापित्वादात्मन आकाशस्येव परिस्पन्दात्मिका क्रिया न विद्यते, शाक्यानां तु | क्षणिकत्वात्सर्वपदार्थानां प्रतिसमयमन्यथा चान्यथा चोत्पत्तेः पदार्थसत्चैव न तव्यतिरिक्ता काचित्क्रियाऽस्ति, तथा चोक्तम्- "भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते" इत्यादि, तथा सर्वपदार्थानां प्रतिक्षणमवस्थान्तरगमनात्सक्रियत्वमतोऽक्रिया न विद्यते इत्येवं संज्ञां नो निवेशयेत् किं तर्हि ?, अस्ति क्रिया अक्रिया चेत्येवं संज्ञां निवेशयेत् तथाहि शरीरात्मनोर्देशाद्देशान्तरावाप्तिनिमित्ता परिस्पन्दात्मिका क्रिया प्रत्यक्षेणैवोपलभ्यते, सर्वथा निष्क्रियते चात्मनोऽभ्युपगम्यमाने गगनस्येव बन्धमोक्षाद्यभावः, स च दृष्टेष्टबाधितः तथा शाक्यानामपि प्रतिक्षणोत्पत्तिरेव क्रियेत्यतः कथं क्रियाया अभावः १ अपि च-एकान्तेन क्रियाऽभावे संसारमोक्षाभावः स्यादित्यतोऽस्ति क्रिया, तद्विपक्षभूता चाक्रियेत्येवं संज्ञां निवेशयेदिति ||१९|| तदेवं सक्रियात्मनि सति क्रोधादिसद्भाव इत्येतदर्शयितुमाह णत्थि कोहे व माणे वा, शेवं सन्नं निवेसए । अन्थि कोहे व माणे वा, एवं सन्नं निबेसए ॥ २० ॥ णत्थि माया व लोभे वा, पणेवं सन्नं निवेसए । अस्थि माया व लोभे वा, एवं सन्नं निवेस ॥ २१ ॥ णत्थि पेले व दोसे वा, शेवं सन्नं निवेसए । अस्थि पेले व दोसे वा, एवं सन्नं निवेस ॥ २२ ॥ सूत्रं स्वपरात्मनोरप्रीतिलक्षणः क्रोधः स चानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदेन चतुर्थाऽऽगमे पठ्यते, तथैतावद्भेद एव मानो गर्वः, एतौ द्वावपि 'न स्तो' न विद्येते, तथाहि क्रोधः केषांचिन्मतेन मानांश एव अभिमानग्रहगृहीतस्य Ecatur International For Parts Only ~763~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy