SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||??|| दीप अनुक्रम [७१५] सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाझीयावृत्तिः ॥३७६ ॥ “सूत्रकृत्” - अंगसूत्र -२ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ५ ], उद्देशक [ - ], मूलं [गाथा - ११], निर्युक्तिः [१८३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०२ ], अंग सूत्र - [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः टमिष्टं वा, अपिच एवं सर्वस्य सर्वस्मादुत्पत्तेः कार्यकारणभावानियमः स्याद् एवं च न शाल्यङ्कुरार्थी शालीवीजमेवादद्याद् अपि तु यत्किञ्चिदेवेति, नियमेन च प्रेक्षापूर्वकारिणामुपादानकारणादौ प्रवृत्तिः, अतो नासत्कार्यवाद इति । तदेवं सर्वपदार्थानां सच्चज्ञेयत्वप्रमेयखादिभिर्धमः कथञ्चिदेकत्वं तथा प्रतिनियतार्थकार्यतया यदेवार्थक्रियाकारि तदेव परमार्थतः सदितिकृत्वा कथञ्चिद्भेद इति सामान्यविशेषात्मकं वस्थिति स्थितम् । अनेन च स्यादस्ति स्वाभास्तीतिभङ्गकद्वयेन शेषभङ्गका अपि द्रष्टव्याः, तत सर्व वस्तु सप्तभङ्गीस्वभावं ते चामी - खद्रव्यक्षेत्रकालभावापेक्षया स्यादस्ति, परद्रव्याद्यपेक्षया स्यान्नास्ति, अनयोरेव धर्मयोयाँगपद्ये| नाभिधातुमशक्यत्वात्स्यादवक्तव्यं, तथा कस्यचिदंशस्य स्वद्रव्याद्यपेक्षया विवक्षितत्वात्कस्यचिच्चांशस्य परद्रव्याद्यपेक्षया विवक्षितखात् स्यादस्ति च स्यान्नास्ति चेति, तथैकस्यांशस्य स्वद्रव्याद्यपेक्षया परस्य तु सामस्त्येन स्वपरद्रव्याद्यपेक्षया विवक्षितसात्स्यादस्ति चावक्तव्यं चेति, तथैकस्यांशस्य परद्रव्याद्यपेक्षया परस्य तु सामस्त्येन स्वद्रव्याद्यपेक्षया विवक्षितत्वात् स्यान्नास्ति चावक्तव्यं | चेति, तथैकस्यांशस्य स्वद्रव्याद्यपेक्षया परस्य तु परद्रव्याद्यपेक्षयाऽन्यस्य तु यौगपद्येन स्वपरद्रव्याद्यपेक्षया विवक्षितनात्स्यादस्ति च नास्ति चाबक्तव्यं चेति, इयं च सप्तभङ्गी यथायोगमुत्तरत्रापि योजनीयेति ॥ १० ॥ ११ ॥ तदेवं सामान्येन सर्वस्यैव वस्तुनो भेदाभेदी प्रतिपाद्याधुना सर्वशून्यवादिमतनिरासेन लोकालोकयोः प्रविभागेनास्तित्वं प्रतिपादयितुकाम आह--यदिवा 'सर्वत्र वीर्यमस्ति नास्ति सर्वत्र वीर्य' मित्यनेन सामान्येन वस्वस्तिखमुक्तं, तथाहि — सर्वत्र वस्तुनो 'वीर्य' शक्तिरर्थक्रियासामर्थ्यमन्तशः स्वविषयज्ञानोत्पादनं तचैकान्तेनात्यन्ताभावाच्छशविषाणादेरप्यस्तीत्येवं संज्ञां न निवेशयेत्, सर्वत्र वीर्य नास्तीति नो एवं संज्ञां ११ मनसः प्र० । २ भावाभावा प्र०३ सर्वत्र वीर्यमित्येवंरूप। Education International For Pale On ~756~ ५ आचारश्रुताध्य. ॥ ३७६ ॥ yor
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy