________________
आगम
(०२)
प्रत
सूत्रांक
||९||
दीप
अनुक्रम [७१३]
“सूत्रकृत्”
अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ५ ], उद्देशक [-] मूलं [गाथा - ९], निर्युक्तिः [१८३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
न्ते- एतैरुपभोगं ये कुर्वन्ति 'अन्योऽन्यं' परस्परं तान् खकीयेन कर्मणोपलिप्तान् विजानीयादित्येवं नो वदेत् तथाऽनुपलिप्तानिति वा नो वदेत्, एतदुक्तं भवति - आधाकर्मापि श्रुतोपदेशेन शुद्धमितिकृला भुञ्जानः कर्मणा नोपलिप्यते, तदाधाकर्मोपभोगेनावश्यतया कर्मबन्धो भवतीत्येवं नो वदेत् तथा श्रुतोपदेशमन्तरेणाहारगृज्याऽऽयाकर्म भुञ्जानस्य तन्निमित्तकर्मबन्धसद्भावात् | अतोऽनुलिप्तानपि नो वदेत्, यथावस्थितमौनीन्द्रागमज्ञस्य खेवं युज्यते वक्तुम् - आधाकर्मोपभोगेन स्वात्कर्मबन्धः स्यान्नेति, यत उक्तम् "किंचिच्छुद्धं कल्प्यमकल्प्यं वा स्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं पात्रं वा भेपजाद्यं वा ॥ १॥" तथाऽन्यैरप्यसिहितम् - "उत्पद्येत हि साध्वस्था, देशकालामयान्प्रति । यस्यामकार्य कार्य स्यात्कर्म कार्य च वर्जयेद् ||१||" इत्यादि ||८|| किमि - त्येवं स्याद्वादः प्रतिपाद्यत इत्याह- आभ्यां द्वाभ्यां स्थानाभ्यामाश्रिताभ्यामनयोर्वा स्थानयोराधाकमोंपभोगेन कर्मबन्धभावाभावभूतयोर्व्यवहारो न विद्यते, तथाहि-- यद्यवश्यमाधाकर्मोपभोगेन कान्तेन कर्मबन्धोऽभ्युपगम्येत एवं चाहाराभावेनापि कचित्सुतरामनर्थोदयः स्यात्, तथाहि--क्षुत्प्रपीडितो न सम्यगीर्यापथं शोधयेत् ततश्च व्रजन् प्राप्युपमर्द्दमपि कुर्यात् मूर्च्छादिसद्भाव| तया च देहपाते सत्यवश्यंभावी प्रसादिव्याघातोऽकालमरणे चाविरतिरङ्गीकृता भवत्यार्तध्यानापत्तौ च तिर्यग्गतिरिति, आगमश्च"संवत्थ संजमं संजमाओ अप्पाणमेव रक्खेज्जा" इत्यादिनाऽपि तदुपभोगे कर्मबन्धाभाव इति, तथाहि आधाकर्मण्यपि निष्पाद्यमाने षड्जीवनिकायवधस्तद्वधे च प्रतीतः कर्मबन्ध इत्यतोऽनयोः स्थानयोरेकान्तेनाश्रीयमाणयोर्व्यवहरणं व्यवहारो न युज्यते, तथा ऽऽभ्यामेव स्थानाभ्यां समाश्रिताभ्यां सर्वमनाचारं विजानीयादिति स्थितम् ॥९॥ पुनरप्यन्यथा दर्शनं प्रति वागनाचारं दर्शयितुमाह१ सर्वत्र व संयमादात्मानमेव रक्षेत् ।
For Parts Only
~753~
any org