________________
आगम
(०२)
प्रत
सूत्रांक
[ ६७ ]
दीप
अनुक्रम [७०४]
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ५ ], उद्देशक [-], मूलं [६७...], निर्युक्तिः [१८१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
अथ पञ्चरमाचारश्रुताध्ययनप्रारंभः ।
साम्प्रतं पञ्चममारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययने प्रत्याख्यानक्रियोक्ता, सा चाचारव्यवस्थितस्य सतो भवतीत्यतस्तदनन्तरमाचारश्रुताध्ययनमभिधीयते, यदिवाऽनाचारपरिवर्जनेन सम्यक् प्रत्याख्यानमस्खलितं भवतीत्यतोऽनाचारश्रुताध्ययनमभिधीयते, यदिवा प्रत्याख्यानयुक्तः सन्नाचारवान् भवतीत्थतः प्रत्याख्यानक्रियाऽनन्तरमाचारश्रुताध्ययनं तत्प्रतिपक्षभूतमनाचारश्रुताध्ययनं वा प्रतिपाद्यत इत्यनेन संबन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति । तत्रोपकमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा— अनाचारं प्रतिषिध्य साधूनामाचारः प्रतिपाद्यते, नामनिष्पत्रे तु निक्षेपे आचारश्रुतमिति द्विपदं नाम, तदनयोर्निक्षेपार्थ निर्मुक्तिकृदाह---
णामंठवणायारे दवे भावे य होति नायो । एमेव य सुत्तस्सा निक्खेवो चउविहो होति ॥ १८९ ॥ आपारसुयं भणियं वज्जेयता सया अणायारा । अबहुसुस्स हु होज विराहणा इत्थ जहयवं ।। १८२ ॥ एयरस उ पडिसेहो इहमज्झयणंमि होति नायवो तो अणगारसुयंति य होई नामं तु एयस्स ॥ ९८३ ॥ ● तत्राचारो नामस्थापनाद्रव्यभावभेदभिभवतुर्धा द्रष्टव्यः, एवं श्रुतमपीति । तत्राचार तयोरन्यत्राभिहितयोर्लाघवार्थमतिदेशं कुर्वन्नाह - आचारथ श्रुतं च आचारश्रुतं द्वन्द्वैकवद्भवस्तदुभयमपि 'भणितम्' उक्तं, तत्राचारः क्षुल्लिकाचार कथायामभिहितः श्रुतं
For Parts Only
अथ पंचमं अध्ययनं "आचारश्रुत" आरभ्यते, पूर्व अध्ययनेन सह् अस्य अभिसंबन्ध:, आचार एवं श्रुत शब्दस्य निक्षेपाः अत्र अध्ययनस्य नाम्नी मुद्रणदोष: वर्तते (प्रतमें ऊपर शीर्षकमें "पंचरमा,,,,,," ऐसा लिखा है, यहाँ "पंचममा ...." होना चाहिए
~ 745~