________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-१६], नियुक्ति: [३५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||१६||
R यथा म्लेच्छ: अम्लेच्छस्थ परमार्थमजानानः केवलं तद्भाषितमनुभाषते, तथा 'अज्ञानिकाः सम्यग्ज्ञानरहिताः श्रमणा || 1 ब्राह्मणा बदन्तोऽपि खीयं खीयं ज्ञानं प्रमाणत्वेन परस्परविरुद्धार्थभाषणात निश्चयार्थ न जानन्ति, तथाहि ते स्वकीयं तीर्थकर 18॥ सर्वज्ञत्वेन निर्यि तदुपदेशेन क्रियासु प्रबर्तेरन्, न च सर्वज्ञविवक्षा अर्वाग्रदर्शिना ग्रहीतुं शक्यते, 'नासर्वज्ञः सर्वे जानातीति ||
न्यायात् , तथा चोक्तम्-"सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानक्षेयविज्ञानरहितैर्गम्यते कथम् । ॥१॥" | एवं परचेतोवृत्तीना दुरन्वयत्वादुपदेष्टुरपि यथावस्थितविवक्षया ग्रहणासंभवानिश्चयार्थमजानाना म्लेच्छवदपरोक्तमनुभाषन्त एव, ॥४॥ I'अयोधिका' बोधरहिताः केवलमिति, अतोऽज्ञानमेव श्रेय इति । एवं यावद्यावज्ज्ञानाभ्युपगमस्तावत्ताबद्गुरुतरदोषसंभवः, 18 तथाहि--योऽवगच्छन् पादेन कस्यचित् शिरः स्पृशति तस्य महानपराधो भवति, यस्त्वनाभोगेन स्पृशति तसै न कश्चिदपराध्यतीति, एवं चाज्ञानमेव प्रधानभावमनुभवति, न तु ज्ञानमिति ॥ १६ ॥ एवमज्ञानवादिमतमन्चेदानीं तदूषणायाहअन्नाणियाणं वीमंसा, अण्णाणे ण विनियच्छइ । अप्पणो य परं नालं, कुतो अन्नाणुसासि ? ॥१७॥
न ज्ञानमज्ञानं तद्विद्यते येषां तेऽज्ञानिनः, अज्ञानशब्दस्य संज्ञाशब्दबाबा मत्वर्थीयः,गौरखरखदरण्यमिति यथा, तेषामज्ञानिनाम् । -अज्ञानमेव श्रेय इत्येवंवादिना, योऽयं 'विमर्शः पर्यालोचनात्मको मीमांसा वा-मातुं परिच्छेत्तुमिच्छा सा 'अज्ञाने' अज्ञानविषये 'न णियच्छति' न निधयेन यच्छति-नावतरति, न युज्यत इतियावत् , तथाहि-यैवंभूता मीमांसा विमर्शो चा किमेतज्ज्ञानं सत्यमुतासत्यमिति', यथा अज्ञानमेव श्रेयो यथा यथा च ज्ञानातिशयस्तथा तथा च दोषातिरेक इति सोऽयमेवभूतो विमर्श
दीप अनुक्रम [४३]
Deaoceaeiseaseeeeeeeeeeeeeea
Brainrary.org
~73~