________________
आगम
(०२)
प्रत
सूत्रांक
[४२]
दीप
अनुक्रम [६७४]
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ३ ], उद्देशक [-], मूलं [ ४२...], निर्युक्तिः [१७८] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
ते च विग्रहविग्रहोत्पत्ती विचतुःसामविकायां द्रष्याः, चतुर्विग्रहपश्चसमयोत्पत्तिस्तु स्वल्पसत्त्वाश्रितेति न साक्षादुपात्ता, तथा चान्यत्राप्यभिहितम् - "एक डौ वाग्नाहारकः" (तत्त्वा० अ०२सू० ३१), वाशब्दात् त्रीन् वा, आनुपूर्व्या अभ्युदय उत्कृष्टतो विग्रहगतौ चतुरः समयानागमेऽभिहितः, ते च पञ्चसमयोत्पत्तौ लभ्यन्ते नान्यत्रेति । भवस्यकेवलिनस्तु समुद्घाते गन्धे तत्क रणोपसंहारावसरे तृतीयपञ्चमसमयौ द्वौ लोकपूरणाच्चतुर्थसमयेन सहितास्त्रयः समया भवन्तीति । पुनरपि निर्युक्तिकारः सादिक|मपर्यवसानं कालमनाहारकत्वं दर्शयितुमाह- शैलेश्यवस्थाया आरभ्य सर्वदानाहारकः सिद्धावस्था प्राप्तावनन्तमपि कालं यावदिति, पूर्व तु कावलिकव्यतिरेकेण प्रतिसमयमाहारकः कावलिकेन तु कादाचित्क इति । ननु केवलिनो घातिकर्मक्षयेऽनन्तथीका भवत्येव कावलिक आहारः, तथाहि आहारादाने यानि वेदनादीनि पट् कारणान्यभिहितानि तेषां मध्ये एकमपि न विद्यते केवलिनि तत्कथमसाकाहारं बहुदोषदुष्टं गृह्णीयात् ?, तत्र न तावत्तस्य वेदनोत्पद्यते, तद्वेदनीयस्य दग्धर स्थानिकत्वात्, सत्यामपि न तस्य तत्कृता पीडा, अनन्तवीर्यखात्, वैयावृत्यकारणं तु भगवति सुरासुरनराधिपतिपूज्ये न संभाव्यत एवेति, ईर्यापथः पुनः केवलज्ञानावरणपरिक्षयात्सम्यगवलोकयत्येवासा, संयमस्तु तस्य यथाख्यातचारित्रिणो निष्ठितार्थलानाहारग्रहणाय कारणीभवति, प्राणवतिस्तु तस्यानपवर्तित्वात् आयुषोऽनन्वषीर्यसाच्चान्यथा सिद्धैव, धर्मचिन्तावसरस्वपगतो निष्ठितावात्, तदेवं केवलिनः कावलिकाहारो बहपायसान्न कथचिद् घटत इति स्थितम् अत्रोच्यते, तत्र यत्तावदुक्तं 'घातिकर्मक्षये कवेलज्ञानोत्पत्तावनन्तवीर्यवान्न केवलिनो मुक्ति रिति, तदागमानमिज्ञस्य तत्त्वविचाररहितस्य युक्तिहृदयमजानतो वचनं, तथा
१ अन्तराणि समन्धीभवनसमयः २ सति कारणताज्ञापनाय |
अनाहारकत्वं दर्शनं, केवलिनः भुक्तिः
For Pale Only
~693~