________________
आगम
(०२)
प्रत
सूत्रांक
[४१]
दीप
अनुक्रम [६७३]
“सूत्रकृत्” - अंगसूत्र -२ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-] मूलं [४१], निर्युक्ति: [ १६८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
दीहमद्धं चाउरंतसंसारकंतारं भुजो भुजो णो अणुपरियहिस्संति, ते सिज्झिस्संति जाव दुखणं अंत करिस्सति || (सू ४१) ।।
प्रवदनशीलाः प्रायादुकाः 'सर्वेऽपि ते' त्रिपश्युत्तरत्रिशतपरिमाणा अपि आदिकरा यथाखं धर्माणां, येऽपि च तच्छिष्यास्तेऽपि सर्वे नाना- भिन्ना प्रज्ञा-ज्ञानं येषां ते नानाप्रज्ञाः, आदिकरा इत्यनेनेदमाह-स्वरुचिविरचितास्ते न खनादिप्रवाहायाताः, ननु चाहतानामपि आदिखविशेषणमस्त्येव, सत्यमस्ति, किंतु अनादिहेतुपरम्परेत्यनादिखमेव, तेषां च सर्वज्ञप्रणीतागमानाश्रयणात्रिबन्धनाभावः तदभावाच्च भिन्नं परिज्ञानम्, अत एव नानाछन्दाः, छन्दः - अभिप्रायः, भिन्नाभिप्राया इत्यर्थः तथाहि उत्पादव्ययाव्यात्मके वस्तुनि सांख्यैरेकान्तेनाविर्भावति रोभावाश्रयणादन्वयिनमेव पदार्थ सत्यत्वेनाश्रित्य नित्यपक्षं (ते) समाश्रिता:, तथा | शाक्या अत्यन्तक्षणिकेषु पूर्वोत्तरभिन्नेषु पदार्थेषु सत्सु स एवायमिति प्रत्यभिज्ञाप्रत्ययः सदृशापरापरोत्पत्तिविप्रलब्धानां भवती| त्येतत्पक्षसमाश्रयणादनित्यपक्षं समाश्रिता इति । तथा नैयायिकवैशेषिकाः केषाञ्चिदाकाशपरमाण्यात्मादीनामेकान्तेन नित्यलमेव कार्यद्रव्याणां च घटपटादीनामेकान्तेनानित्यत्वमेवाश्रिताः । एवमनया दिशाऽन्येऽपि मीमांसकतापसादयोऽभ्यूद्या इति तथा ते तीर्थिका नाना शीलं येषां ते तथा, शीलं व्रतविशेषः, स च भिन्नस्तेषामनुभवसिद्ध एव । तथा नाना दृष्टि:- दर्शनं येषां ते तथा, तथा नाना रुचियेषां ते नानारुचयः, तथा नानारूपमध्यवसानम्-अन्तःकरणप्रवृत्तिर्येषां ते तथा, इदमुक्तं भवति - अहिंसाऽत्र प्रधानं धर्माङ्ग, सा च तेषां नानाभिप्रायखादविकललेन न व्यवस्थिता । तस्या एव सूत्रकारः प्राधान्यं दर्शयितुमाह-ते सर्वेऽपि प्रावादुका यथास्वपक्षमाश्रिता एकत्र प्रदेशे संयुता मंडलिन्यमाधाय तिष्ठन्ति तेषां
Education International
For Park Use Only
~683~
Mandrary org