________________
आगम
(०२)
प्रत
सूत्रांक
[३१]
दीप
अनुक्रम [६६३]
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [३१], निर्युक्ति: [ १६८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
तदेवमेतानि चतुर्दशाप्युद्दिश्य प्रत्येकमादितः प्रभृति विवृणोति — तत्रैकः कश्चिदात्माद्यर्थ अपरस्य गन्तुर्ग्रामान्तरं किञ्चिद्रव्यजातमवगम्य तदादित्सुस्तस्यैवानुगामुकभावं 'प्रतिसंधाय' सहगन्तुभावेनानुकूल्यं प्रतिपय विवक्षितवञ्चनावसरका लायपेक्षी तमेव गच्छन्तमनुव्रजति, तमेव चाभ्युत्थान विनयादिभिरत्यन्तोपचारैरुपचर्यानुब्रज्य च विवक्षितमवसरं लब्ध्वा तस्यासौ हन्ता दण्डादिभिः तथा छेत्ता खङ्गादिना हस्तपादादेः तथा भेत्ता वज्रमुष्यादिना तथा लुम्पयिता केशाकर्षणादिकदर्थनतः तथा विलुम्पयिता कशाप्रहारादिभिरत्यन्तदुःखोत्पादनेन तथा अपद्रावयिता जीविताद्व्यपरोपणतो भवतीत्येवमादिकं कृखाऽऽहारमाहारयत्यसौ, एतदुक्तं भवति - गलकर्तकः कचिदन्यस्य घनवतोऽनुगामुकभावं प्रतिपद्य तं बहुविधैरुपायैर्विश्रम्भे पातयिखा भोगार्थी मोहान्धः साम्प्रतेक्षितया तस्य रिक्थवतोऽपकृत्याहारादिकां भोगक्रियां विधत्ते । इत्येवमसौ महद्भिः क्रूरैः कर्मभिः - अनुष्ठानैर्महापातकभूतैर्वा तीत्रानुभावैदर्घस्थिति कैरात्मानमुपख्यापयिता भवति, तथाहि - अयमसौ महापापकारीत्येवमात्मानं लोके ख्यापयति, अष्टप्रकारैर्वा कर्मभिरात्मानं तथा बन्धयति यथा लोके तद्विपाकापादितेनावस्थाविशेषेण सता नारकतिर्यङ्नरामररूपतयाऽख्यात इति । तदेवमेकः कचिदकर्तव्याभिसंधिना परस्य स्वापतेयवतस्तद्वञ्चनार्थमुपचरकभावं 'प्रतिसंधाय प्रतिज्ञाय पश्चातं नानाविधैर्विनयोपायैरुपचरति, उपचर्य च विश्रम्भे पातथिवा तद्रव्यार्थी तस्य हन्ता छेत्ता भेता यावदपद्रावयिता भवतीत्येवमसावात्मानं 'महद्भिः' बृहद्भिः पापैः कर्मभिः उपाख्यापयिता भवतीति ॥ अथैकः कश्चित्प्रतिपथेन-अभिमुखेन चरतीति प्रातिपथिकस्तद्भावं प्रतिपद्या परस्यार्थवतस्तदेव प्रातिपथिकत्वं कुर्वन् प्रतिपथे स्थिता तस्यार्थवतो विश्रम्भतो हन्ता छेता यावदपद्रावयिता भवतीत्येवमसावात्मानं पापैः कर्मभिः ख्यापयतीति । अथैकः कश्विद्विरूपकर्मणा जीवितार्थी 'संधिच्छेदकभावं'
Eucation International
For Parts Only
~ 645~
waryru