________________
आगम
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१५], नियुक्ति: [१५७]
(०२)
प्रत
सूत्रांक
भावात् कुब्यादिदेशनत इति, एवं प्रकर्षेण ज्ञापयन्ति हेतूदाहरणादिभिः, एवं प्ररूपयन्ति नामादिभिर्यथा सर्वे प्राणा न हन्तम्या इत्यादि, 'एष धर्मः' प्राणिरक्षणलक्षणः प्राग्व्यावर्णितस्वरूपो 'ध्रुवः' अवश्यंभावी नित्यः क्षान्त्यादिरूपेण शाश्वत इत्येवं च | 'अभिसमेत्य केवलज्ञानेनावलोक्य 'लोक' चतुर्दशरज्ज्वात्मकं 'खेद' तीर्थकृद्भिः 'प्रवेदितः कथित इत्येवं सर्व शाखा स भिक्षुर्विदितवेद्यो विरतः प्राणातिपातायावत्परिग्रहादिति, एतदेव दर्शयितुमाह-'णो दंत' इत्यादि, इह पूर्वोक्तमहावतपा-19 लनार्थमनेनोत्तरगुणाः प्रतिपाद्यन्ते, तत्र अपरिग्रहो-निष्किञ्चनः सन् साधुनों 'दन्तप्रक्षालनेन' कदम्बादिकाष्ठेन दन्तान् प्रक्षा
लयेत् तथा नो 'अञ्जनं' सौवीरादिकं विभूषार्थमक्ष्णोर्दद्यात् तथा नो वमनविरेचनादिकाः क्रियाः कुर्यात् तथा नो शरीरस्य । ४ स्वीयवस्त्राणां वा धूपनं कुर्यात् नापि कासाद्यपनयनार्थ तं धूमं योगवर्तिनिष्पादितमापिवेदिति ॥ साम्प्रतं मूलगुणोत्तरगुणप्रस्ताव
मुपसंजिघृक्षुराह-(ग्रन्या ९०००)स मूलोत्तरगुणव्यवस्थितो भिक्षुनोस्य क्रिया-सावद्या विद्यते इत्यक्रिया, संघृतात्मकतया सांपरा-18 यिककर्माबन्धक इत्यर्थः, कुत एवंभूतः यतः प्राणिनामलूपका-अहिंसकोऽनुपमर्दक इत्यर्थः, तथा न विद्यते क्रोधो अस्त्यको-| धः, एवममानोमायोज्लोभः कषायोपशमाच्चोपशान्तः-शीतीभूतस्तदुपशमाच्च परिनिर्वृत इव परिनिर्वृतः एवं तावदैहिकेभ्यः कामभोगेभ्यो विरतः पारलौकिकेभ्योऽपि विरत इति दर्शयति-'नो आसंसं' इत्यादि, 'नो' नैवाशंसां पुरस्कृत्य ममानेन वि| शिष्टतपसा जन्मान्तरे कामभोगावाप्तिर्भविष्यतीत्येवभूतामाशंसां न पुरस्कुर्यादिति, एतदेव दर्शयितमाह-'इमेण में' इत्यादि.18
अस्मिन्नेव जन्मन्यमुना विशिष्टतपश्चरणफलेन दृष्टेनामोषध्यादिना तथा पारलौकिकेन च श्रुतेनाकधम्मिल्लब्रह्मदत्तादीनां का विशिष्टतपश्चरणफलेन, तथा 'मएण पति 'मन ज्ञाने' जातिसरणादिना ज्ञानेन, तथाऽऽचार्यादेः सकाशाद्विज्ञातेन-अवगतेन ||
दीप अनुक्रम [६४७]
Surajaniorayog
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] "सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~601~