SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [११] दीप अनुक्रम [६४३] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [११], निर्युक्ति: [१५७] मार्ग प्रतिपन्ना विप्रतिपन्ना न सम्यग्वादिनो भवन्ति, तथाहि सर्वमीश्वर कर्तृकमित्यत्राभ्युपगमे किमसावीश्वरः खत एव परान् क्रियासु प्रवर्त (य) ते उतापरेण प्रेरितः ?, तत्र यद्याद्यः पक्षस्तदा तद्वदन्येषामपि स्वत एव क्रियासु प्रवृत्तिर्भविष्यति किमन्तर्गडनेश्वरपरिकल्पनेन ?, अथासावप्यपरप्रेरितः, सोऽप्यपरेण सोऽप्यपरेणेत्येवमनवस्थालता नभोमण्डलमालिनी प्रसर्पति । किञ्च असावीश्वरो | महापुरुषतया वीतरागतोपेतः सन्नेकान्नरकयोग्यासु क्रियासु प्रवर्तयत्यपरांस्तु स्वर्गापवर्गयोग्यास्खिति ?, अथ ते पूर्वशुभाशुभाचैरितोदयादेव तथाविधासु क्रियासु प्रवर्तन्ते स तु निमित्तमात्रम्, तदपि न युक्तिसंगतं यतः प्राक्तनाशुभप्रवर्तनमपि तदायत्तमेव, तथा | चोक्तम्- "अज्ञो जन्तु" रित्यादि, अथ तदपि प्राक्तनमन्येन प्राक्तनतरेण कारितमिति, एवमनादिहेतुपरम्परेति, एवं च सति तत एव शुभाशुभे स्थाने भविष्यतः किमीश्वरपरिकल्पनेन १ तथा चोक्तम्- "शस्त्रौषधादिसंबन्धाञ्चैत्रस्य वणरोहणे । असंबद्धस्य किं स्थाणोः, कारणखं न कल्प्यते ? ॥ १ ॥" इत्यादि । यञ्चोक्तं सर्वं तनुश्चवनकरणादिकं बुद्धिमत्कारणपूर्वकं संस्थान विशेषलात् देवकुलादिवदिति, एतदपि न युक्तिसंगतं यत एतदपि साधनं न भवदभिप्रेतमीश्वरं साधयति, तेन सार्धं व्याप्यसिद्धेः, देवकुलादिके दृष्टान्तेनीश्वरस्यैव कर्तृखेनाभ्युपगमात् न च संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वकलं सिध्यति, अन्यथा - नुपपत्तिलक्षणस्य साध्यसाधनयोः प्रतिबन्धस्याभावात्, अथाविनाभावमन्तरेणैव संस्थानमात्रदर्शनात्साध्यसिद्धिः स्याद् एवं च सत्यतिप्रसङ्गः स्यात् उक्तं च- "अन्यथा कुम्भकारेण, मृद्विकारस्य कस्यचित् । घटादेः करणात्सियेद्वल्मीकस्यापि तत्कृतिः । ॥ १ ॥" इत्यादि । न चेश्वरकर्तृले जगद्वैचित्र्यं सिध्यति, तस्यैकरूपत्वादित्युक्तप्रायमिति । आत्माद्वैतपक्षस्वत्यन्तम युक्तिसंगतता१ परासु किया प्रवर्तते उता उदा० प्र० २ ० स्ततः प्र०३ कि चा ४ पूर्वाशुभ Education intemational For Funny मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः ~577~ www.incibrary.org
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy