SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||12|| दीप अनुक्रम [६१८] “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [१२], निर्युक्तिः [१३६] Education intentional - ष्टानुष्ठानेन मोक्षस्य संमुखीभूता घाति चतुष्टयक्षय क्रियया उत्पन्नदिव्यज्ञानाः शाश्वतपदस्याभिमुखीभूताः क एवंभूता इत्याहये विपच्यमानतीर्थकुन्नामकर्माणः समासादितदिव्यज्ञाना 'मार्ग' मोक्षमार्ग ज्ञानदर्शनचारित्ररूपम् 'अनुशासन्ति' सच्चहिताय प्राणिनां प्रतिपादयन्ति स्वतथानुतिष्ठन्तीति ॥ १० ॥ अनुशासनप्रकारमधिकृत्याह- अनुशास्यन्ते सन्मार्गेऽवतार्यन्ते सदसद्विवे कतः प्राणिनो येन तदनुशासनं - धर्मदेशनया सन्मार्गावतारणं तत्पृथक् पृथक् भव्याभव्यादिषु प्राणिषु क्षित्युदकवत् स्वाशयवशादनेकधा भवति, यद्यपि च अभव्येषु तदनुशासनं न सम्यक् परिणमति तथापि सर्वोपायज्ञस्यापि न सर्वज्ञस्य दोष:, तेषामेव स्वभावपरिणतिरियं यया तद्वाक्यममृतभूतमेकान्तपथ्यं समस्तद्वन्द्वोपघातकारि न यथावत् परिणमति, तथा चोक्तम्- "सद्धर्मवीजबपनानघ कौशलस्य, यलोकबान्धव । तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु, सूर्याशवो मधुकरीचरणावदाताः ।। १ ।।" किंभूतोऽसावनुशासक इत्याह--वसु-द्रव्यं स च मोक्षं प्रति प्रवृत्तस्य संयमः तद्विद्यते यस्यासौ वसुमान् पूजनं दे | वादिकृतमशोकादिकमास्वादयति-उपभुङ्ग इति पूजनास्वादकः, ननु चाधाकर्मणो देवादिकृतस्य समवसरणादेरुपभोगात्कथमसौ सत्संयमवानित्याशङ्कयाह-न विद्यते आशयः पूजाभिप्रायो यस्यासावनाशयः, यदिवा द्रव्यतो विद्यमानेऽपि समवसरणादिके भावतोऽनाखादकोऽसौ तद्गतगार्थ्याभावात्, सत्यप्युपभोगे 'यतः' प्रयतः सत्संयमवानेवासावेकान्तेन संयमपरायणलात् कुतो ? यत इन्द्रियनोइन्द्रियाभ्यां दान्तः, एतद्गुणोऽपि कथमित्याह-दृढः संयमे, आरतम् उपरतमपगतं मैथुनं यस्य स आरतमैथुनः- अपगतेच्छामदनकामः, इच्छामदन कामाभावाच्च संयमे ढोऽसौ भवति, आयतचारित्रत्वाच्च दान्तोऽसौ भवति, इन्द्रियनोइन्द्रियदमाच प्रयतः, प्रयत्नवच्चाञ्च देवादिपूजनानास्वादकः, तद्नाखादनाच सत्यपि द्रव्यतः परिभोगे सत्संयमवानेवासाविति ॥ ११ ॥ अथ For Parts Only मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः ~519~ www.incibrary.org
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy