________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [४], नियुक्ति : [१२१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] “सुत्र कृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
taeseseseenetrea
||४||
दीप अनुक्रम [५३८]
न्ति | अनुविचिन्त्य भाषणं यतो ज्ञाने सति भवति, तत्पूर्वकत्वाच्च सत्यवादस्य, अतो ज्ञानानभ्युपगमादनुविचिन्त्य भाषणाभावः, तदभावाच तेषां मृषावादित्वमिति ॥ २॥ साम्प्रतं पैनयिकवाद निराचिकीर्षुः प्रक्रमते सयो हितं 'सत्यं परमार्थों यथावस्थि-15 तपदार्थनिरूपणं वा मोक्षो वा तदुपायभूतो वा संयमः सत्यं तदसत्यम् 'इति' एवं 'विचिन्तयन्तों मन्यमानाः, एवमसत्यमपि सत्यमिति मन्यमानाः, तथाहि-सम्यग्दर्शनज्ञानचारित्राख्यो मोक्षमार्गः सत्यस्तमसत्यत्वेन चिन्तयन्तो विनयादेव मोक्ष इत्येतदसत्यमपि सत्यत्वेन मन्यमानाः, तथा असाधुमप्यविशिष्टकमकारिणं वन्दनादिकया विनयप्रतिपच्या साधुम् 'इति' एवम् 'उदाहरन्तः प्रतिपादयन्तो न सम्यग्यथावस्थितधर्मस्य परीक्षकाः, युक्तिविकलं विनयादेव धर्म इत्येवमभ्युपगमात् , क एते इत्येतदाह-ये 'इमें' बुद्ध्या प्रत्यक्षासन्नीकृता 'जना इव' प्राकृतपुरुषा इब जना विनयेन चरन्ति वैनयिका-विनयादेव केवलात्व
मोक्षावाप्तिरित्येवादिनः 'अनेके' बहवो द्वात्रिंशद्भेदभिन्नत्वात्तेषां, ते च विनयंचारिणः केनचिद्धर्मार्थिना पृष्टाः सन्तोऽपिश-18 ब्दादपृष्टा वा 'भावं' परमार्थ यथार्थोपलब्धं खाभिप्राय वा विनयादेव स्वर्गमोक्षावाप्तिरित्येवं 'व्यनैषुः' विनीतवन्त:सर्वदा सर्वस्व सर्वसिद्धये विनयं ग्राहितवन्तः, नामशब्दः संभावनायां, संभाव्यत एव विनयात्स्वकार्यसिद्धिरिति, तदुक्तम्--- "तस्मात्कल्याणानां सर्वेषां भाजनं विनय" इति ॥३॥ किंचान्यत्-संख्यानं संख्या-परिच्छेदः उप-सामीप्येन संख्या उपसंख्या-सम्यग्यथावस्थितार्थपरिज्ञानं नोपसंख्याऽनुपसंख्या तयाऽनुपसंख्यया- अपरिज्ञानेन व्यामूढमतयस्ते वैनयिकाः स्वाग्रह ग्रस्ता इति एतद्-यथा विनयादेव केवलात्वर्गमोधावाप्तिरित्युदाहृतवन्तः, एतच ते महामोहाच्छा१ समुण्यार्थलात्तच्छब्देनानुविचिन्त्य भाषापरामर्शः । २ कारिणः । ३ सम्भं प्र० ।
~431~