________________
आगम
(०२)
प्रत
सूत्रांक
॥४॥
दीप
अनुक्रम [५३८]
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-] मूलं [४], निर्युक्तिः [१२१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ०२], अंग सूत्र -[०२ ] “सुत्र कृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
निवार्य संभवानुमानं सिदं व्याकरणादिनां शास्त्राभ्यासेन संस्क्रियमाणायाः प्रज्ञाया ज्ञानातिशयो ज्ञेयावगमं प्रत्युपलब्धः, तदत्र कश्चित्तथाभूताभ्यासवशात्सर्वज्ञोऽपि स्यादिति, न च तदभावसाधकं प्रमाणमस्ति, तथाहि न तावदवग्दर्शिप्रत्यक्षेण सर्वज्ञाभावः साधयितुं शक्यः, तस्य हि तज्ज्ञानज्ञेय विज्ञानशून्यवाद्, अशून्यत्वाभ्युपगमे च सर्वज्ञत्वापचिरिति । नाप्यनुमानेन, तदव्यभिचा| रिलिङ्गाभावादिति । नाप्युपमानेन सर्वज्ञाभावः साध्यते, तस्य सादृश्यबलेन प्रवृत्तेः न च सर्वज्ञाभावे साध्ये तारग्विधं साह | श्यमस्ति येनासौ सिध्यतीति । नाप्यर्थापच्या, तस्याः प्रत्यक्षादिप्रमाणपूर्वकत्वेन प्रवृत्तेः, प्रत्यक्षादीनां च तत्साधकत्वेनाप्रवर्तनात् तस्या अप्यप्रवृत्तिः । नाप्यागमेन, तस्य सर्वज्ञसाधकत्वेनापि दर्शनात् नापि प्रमाणपञ्चकाभावरूपेणाभावेन सर्वज्ञाभावः सिध्यति, तथाहि सर्वत्र सर्वदा न संभवति तद्ग्राहकं प्रमाणमित्येतदवग्दर्शिनो वक्तुं न युज्यते, तेन हि देशकालविप्रकृष्टानां पुरुषाणां यद्विज्ञानं तस्य ग्रहीतुमशक्यत्वात्, तद्ग्रहणे वा तस्यैव सर्वज्ञत्वापत्तेः न चार्चाग्दर्शिनां ज्ञानं निवर्तमानं सर्वज्ञाभावं सौधयति, तस्याव्यापकत्वात् न चाव्यापकव्यावृत्या पदार्थव्यावृत्तिर्युक्तेति, न च वस्त्वन्तरविज्ञानरूपोऽभावः सर्वज्ञाभावसाध नायालं, वस्त्वन्तर सर्वज्ञयोरेकज्ञानसंसर्गप्रतिबन्धाभावात् । तदेवं बाधकप्रमाणाभावात्संभवानुमानस्य च प्रतिपादितत्वादस्ति सर्वज्ञः, तत्प्रणीतागमाभ्युपगमाच्च मतभेददोषो दूरापास्त इति, तथाहि तत्प्रणीतागमाभ्युपगमवादिनामेकवाक्यतया शरीरमात्र - व्यापी संसार्यात्माऽस्ति तत्रैव तद्गुणोपलब्धेरिति, इतरेतराश्रयदोपश्चात्र नावतरत्येव, यतोऽभ्यस्यमानायाः प्रज्ञाया ज्ञानातिशयः
१ शास्त्राभ्यासे करणला तृतीया यद्वाऽभ्यासाभ्यस्ययोरैक्यं । २ बुद्धितारतम्योपलब्धेर्विधन्तिसिद्धिः ३ भावयति प्र० । ४ पटज्ञाने हि पटाभावप्रतीतियथा । ५ वषवितानियमाभावात् ।
Eaton International
For Parts Only
~429~