________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [११], उद्देशक [-], मूलं [१६], नियुक्ति: [११५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्र कृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||१६||
आश्रवद्वाराणां रोधेनेन्द्रियनिरोधेन च संवृतः स भिक्षुर्महती प्रज्ञा यस्थासौ महाप्रज्ञो-विपुलपुद्धिरित्यर्थः, तदनेन जीवाजी-18 वादिपदार्थाभिज्ञतावेदिता भवति, 'धीरः' अक्षोभ्यः क्षुत्पिपासादिपरीपहने क्षोभ्यते, तदेव दर्शयति-आहारोपधिशय्यादिके | खस्वामिना तत्संदिष्टेन वा दत्ते सत्येपणां चरति एषणीयं गृह्णातीत्यर्थः, एषणाया एषणायां वा गवेषणग्रहणग्रासरूपायां त्रिविधायामपि सम्यगितः समितः, स साधुनित्यमेषणासमितः सन्मनेषणां 'वर्जयन' परित्यजन्संयममनुपालयेत , उपलक्षणार्थवादस्य शेषाभिरपीर्यासमित्यादिभिः समितो द्रष्टव्य इति ॥१३॥ अनेषणीयपरिहारमधिकृत्याह-अभूवन भवन्ति भविष्यन्ति च प्राणिनस्तानि भूतानि प्राणिनः 'समारभ्य' संरम्भसमारम्भारम्मैरुपतापयिता तं साधुम्'उद्दिश्य'साध्वर्थ यत्कृतं तदुपकल्पितमाहारोपकरणादिकं । 'तादृशम् आधाकर्मदोषदुष्टं 'सुसंयतः सुतपस्वी तदनं पानकं वा न भुञ्जीत, तुशब्दस्यैवकारार्थलावाभ्यवहरेद, एवं तेन | मार्गोऽनुपालितो भवति ॥ १४ ॥ किश्व-आधाकर्माद्यविशुद्धकोट्यवयवेनापि संपृक्तं पूतिकर्म, तदेवंभूतमाहारादिकं 'न सेवेत' नोपभुञ्जीत, एषः-अनन्तरोक्तो धर्मः कल्पः स्वभावः 'वुसीमओ'त्ति सम्यक्संयमवतोऽयमेवानुष्ठानकल्पो यदुताशुद्धमाहारादिकं 8 परिहरतीति, किच-यदप्यशुद्धखेनाभिकाङ्ग्रेत् शुद्धमप्यशुद्धखेनाभिशक्षेत किश्चिदप्याहारादिकं तत् 'सर्वशः' सर्वप्रकारम-18 प्याहारोपकरणपूतिकम भोक्तुं न कल्पत इति ॥ १५॥ किश्चान्यत्-धर्मश्रद्धावतां ग्रामेषु नगरेषु वा खेटकर्बटादिषु वा 'स्थानानि' आश्रयाः 'सन्ति' विद्यन्ते, तत्र तत्स्थानाश्रितः कश्चिद्धर्मोपदेशेन किल धर्मश्रद्धालुतया प्राण्युपमर्दकारिणी धर्मबुद्ध्या कूपतडागखननप्रपासत्रादिकां क्रियां कुर्यात् तेन च तथाभूतक्रियायाः कर्ता किमत्र धर्मोऽस्ति नास्तीत्येवं पृष्टोऽपृष्टो वा तदुप__१ कल्पखभावः प्र.बूमः ।
दीप अनुक्रम [५१२]
~407~