SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥१०॥ दीप अनुक्रम [३९०] “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [७], उद्देशक [-], मूलं [१०], निर्युक्तिः [९०] मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [०२], अंग सूत्र [०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः Education m - योता इत्युपदिश्यन्त इत्यादि शेषास्वप्यवस्थास्वायोज्यं, तदेवं हरितादीन्यपि जीवाकारं विलम्बयन्ति तत एतानि मूलस्कन्धशाखापत्रपुष्पादिषु स्थानेषु 'पृथक' प्रत्येकं 'श्रितानि' व्यवस्थितानि, न तु मूलादिषु सर्वेष्वपि समुदितेषु एक एव जीवः, एतानि | च भूतानि सश्येयास त्यानन्त भेदभिन्नानि वनस्पतिकायाश्रितान्याहारार्थ देहोपचयार्थ देहक्षत संरोहणार्थं वाऽऽत्मसुखं 'प्रतीत्य' | आश्रित्य यच्छिनत्ति स 'प्रागल्भ्यात्' घार्थ्यावष्टम्भाद्बहूनां प्राणिनामतिपाती भवति, तदतिपाताच्च निरनुक्रोशतया न धर्मो नाप्यात्मसुखमित्युक्तं भवति ॥ ८ ॥ किञ्च - 'जातिम्' उत्पत्तिं तथा अङ्कुरपत्रमूलस्कन्धशाखाप्रशाखाभेदेन वृद्धिं च विनाशयन् बीजानि च तत्फलानि विनाशयन् हरितानि छिनचीति, 'असंयतः' गृहस्थः प्रब्रजितो वा तत्कर्मकारी गृहस्थ एव, स च हरितच्छेदविधाय्यात्मानं दण्डयतीत्यात्मदण्डः, स हि परमार्थतः परोपघातेनात्मानमेवोपहन्ति, अथशब्दो वाक्यालङ्कारे 'आहुः' एवमुक्तवन्तः किमुक्तवन्त इति दर्शयति-यो हरितादिच्छेदको निरनुक्रोशः 'सः' असिन् लोके 'अनार्यधर्मा' क्रूरकर्मकारी भवतीत्यर्थः, स च क एवम्भूतो यो धर्मापदेशेनात्मसुखार्थ वा बीजानि अस्य चोपलक्षणार्थंलात् वनस्पतिकार्य हिनस्ति स पापण्डिकलोकोऽन्यो वाऽनार्यधर्मा भवतीति सम्बन्धः ||९|| साम्प्रतं हरितच्छेदकर्मविपाकमाह — इह वनस्पतिकायो| पमर्दकाः बहुषु जन्मसु गर्भादिकास्ववस्थासु कललार्बुदमांसपेशीरूपासु म्रियन्ते, तथा 'ब्रुवन्तोऽब्रुवन्तश्च' व्यक्तवाचोऽव्यक्तवाचच तथा परे नराः पञ्चशिखाः कुमाराः सन्तो म्रियन्ते, तथा युवानो मध्यमवयसः स्थविराथ कचित्पाठो 'मज्झिमपोरुसा य'ति तत्र 'मध्यमा' मध्यमवयसः 'पोरुसा य'त्ति पुरुषाणां चरमावस्थां प्राप्ता अत्यन्तवृद्धा एवेतियावत्, तदेवं सर्वा For First Use Only ~319~ www.ncbrary.org
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy