________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [-], मूलं [२४], नियुक्ति: [८५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत” मूलं एवं शिलांकाचार्य-कृत वृत्ति:
प्रत
सूत्रांक
||२४||
दीप अनुक्रम [३७५]
eacocreeneraceaeeserevedever
नेन पुनर्जन्मानमिवात्मानमवैमीति, अतः सर्वदानानामभयप्रदानं श्रेष्ठमिति स्थितम् । तथा सत्येषु च वाक्येषु यदू 'अनवम्' अपापं परपीडानुत्पादकं तत् श्रेष्ठं वदन्ति, न पुनः परपीडोत्पादकं सत्यं, सद्भ्यो हितं सत्यमितिकृखा, तथा चोक्तम्-"लोकेऽपि श्रूयते वादो, यथा सत्येन कौशिकः । पतितो वधयुक्तेन, नरके तीनवेदने ॥१॥" अन्यच्च---"तहेब काणं काणत्ति, पंडगं पंडगति वा । वाहियं वापि रोगिति, तेणं चोरोति नो वदे ॥१॥" तपस्सु मध्ये यथैवोत्तमं नवविधप्रहगुप्युपेतं ब्रह्मचर्य। प्रधानं भवति तथा सर्वलोकोत्तमरूपसम्पदा-सर्वातिशायिन्या शक्त्या क्षायिकज्ञानदर्शनाभ्यां शीलेन च 'ज्ञातपुत्रो' भगवान् । श्रमणः प्रधान इति ॥ २३ ॥ किश्च-स्थितिमतां मध्ये यथा 'लवसत्तमाः पञ्चानुत्तरविमानवासिनो देवाः सर्वोत्कृष्टस्थितिवर्तिनः प्रधानाः, यदि किल तेषां सप्त लबा आयुष्कमभविष्यत्ततः सिद्धिगमनमभविष्यदित्यतो लवसत्तमास्तेऽभिधीयन्ते, 'सभानां च' पर्षदां च मध्ये यथा सौधर्माधिषपर्षच्छ्रेष्ठा बहुभिः क्रीडास्थानैरुपेतखातथा यथा सर्वेऽपि धर्मा 'निर्वाणश्रेष्ठाः' मोक्षप्रधाना भवन्ति, कुप्रावचनिका अपि निर्वाणफलमेव खदर्शनं बुवते यतः, एवं 'ज्ञातपुत्रात्' वीरवर्धमानखामिनः सर्वज्ञात् सका|शात् 'परं' प्रधानं अन्यविज्ञानं नास्ति, सर्वथैव भगवानपरज्ञानिम्योधिकज्ञानो भवतीति भावः ॥ २४ ॥ किश्चान्यत्
पुढोवमे धुणइ विगयगेही, न सण्णिहिं कुवति आसुपन्ने । तरिउं समुदं व महाभवोघं, अभयंकरे वीर अणंतचक्खू ॥ २५ ॥
702003930292900202012900rna
~305~