________________
आगम
(०२)
प्रत
सूत्रांक
||५||
दीप
अनुक्रम [३५६]
°°°°°°৬:
“सूत्रकृत्” - अंगसूत्र -२ ( मूलं+निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१], अध्ययन [ ६ ], उद्देशक [-] मूलं [ ५ ], निर्युक्ति: [ ८५] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
से सवदंसी अभिभूयनाणी, णिरामगंधे घिइमं ठितप्पा | अणुत्तरे सहजसि विजं, गंथा अतीते अभए अणाऊ ॥ ५ ॥ से भूपपणे अणिएअचारी, ओहंतरे धीरे अनंतचक्खू । अणुत्तरं तप्पति सूरिए वा, वइरोयणिंदे व तमं पगासे ॥ ६ ॥
'स' भगवान् सर्व-जगत् चराचरं सामान्येन द्रष्टुं शीलमस्य स सर्वदर्शी, तथा 'अभिभूय' पराजित्य मत्यादीनि चत्वार्यपि ज्ञानानि यद्वर्तते ज्ञानं केवलाख्यं तेन ज्ञानेन ज्ञानी, अनेन चापरतीर्थाधिपाधिकलमावेदितं भवति, 'ज्ञानक्रियाभ्यां मोक्ष' इति कृत्वा तस्य भगवतो ज्ञानं प्रदर्श्य क्रियां दर्शयितुमाह-निर्गतः-अपगत आमः-अविशोधिकोट्याख्यः तथा गन्धो-विशोधिकोटिरूपो यस्मात् स भवति निरामगन्धः, मूलोत्तरगुणभेदभिन्नां चारित्रक्रियां कृतवानित्यर्थः, तथाऽसह्यपरीषहोपसर्गाभिद्रुतोऽपि निष्प्रकम्पतया चारित्रे धृतिमान् तथा स्थितो व्यवस्थितोऽशेषकर्म विगमादात्मस्वरूपे आत्मा यस्य स भवति स्थितात्मा, एतच्च ज्ञानक्रिययोः फलद्वारेण विशेषणं, तथा-नांस्योत्तरं प्रधानं सर्वस्मिन्नपि जगति विद्यते (यः) स तथा विद्वानिति सकलपदार्थानां करतलामलकन्यायेन वेत्ता, तथा बाह्यग्रन्थात् सचित्तादिभेदादान्तराश्च कर्मरूपाद् 'अतीतो' अतिक्रान्तो ग्रन्थातीतो -निर्ग्रन्थ १ तस्य परमामेतिमित्यादिवदवयववाचित्वेन पी ।
Education Internation
For Park Use Only
~293~
wor