________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [१६], नियुक्ति: [६३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक ||१६||
दीप अनुक्रम [२९३]
H॥१५॥ अन्यच-जात:-पुत्रः स एव फलं गृहस्थानां, तथाहि-पुरुषाणां कामभोगा: फलं तेषामपि फलं-प्रधानकार्य पुत्रजन्मेति,
तदुक्तम् - "इदं तस्नेहसर्वेखं, सममाढ्यदरिद्रयोः । अचन्दनमनौशीरं, हृदयस्थानुलेपनम् ॥१॥ यत्तच्छपनिकेत्युक्तं, चालेना
व्यक्तभाषिणा। हिला सांख्यं च योगं च, तन्मे मनसि वर्तते ॥२॥" यथा 'लोके पुत्रसुमुखं नाम, द्वितीय मु(म)खमात्मनः' 1 इत्यादि, तदेवं पुत्रः पुरुषाणां परमाभ्युदयकारणं तसिन् 'समुत्पन्ने जाते तदुद्देशेन या विडम्बनाः पुरुषाणां भवन्ति ता
दर्शयति-अमुं दारकं गृहाण खम् , अहं तु कर्माक्षणिका न मे ग्रहणावसरोस्ति, अथचैनं 'जहाहि' परित्यज नाहमस वार्तामपि पृच्छामि एवं कुपिता सती ब्रूते, मयाऽयं नव मासानुदरेणोढः सं पुनरुत्सङ्गेनाप्युद्वहन् स्तोकमपि कालमुद्विजस इति, दासहष्टान्तस्वादेशदानेनैव साम्यं भजते, नादेशनिष्पादनेन, तथाहि-दासो भयादुद्विजन्नादेशं विधत्ते, स तु स्त्रीवशगोऽनुग्रह | मन्यमानो मुदितश्च तदादेश विधचे, तथा चोक्तम्-"यदेव रोचते मां, तदेव कुरुते प्रिया । इति वेचि न जानाति, तत्प्रियं । | यत्करोत्यसौ ॥१॥ ददाति प्रार्थितः प्राणान् , मातरं हन्ति तत्कृते । किं न दद्यात् न किं कुर्यात्स्त्रीभिरभ्यर्थितो नरः ॥२॥1॥
ददाति शौचपानीयं, पादौ प्रक्षालयत्यपि । श्लेष्माणमपि गृह्णाति, स्त्रीणां वशगतो नरः ॥३।।" तदेवं पुत्रनिमित्तमन्यद्वा यत्कि-IN |श्चिन्निमित्तमुद्दिश्य दासमिवादिशन्ति, अथ तेऽपि पुत्रान् पोषितुं शीलं येषां ते पुत्रपोषिण उपलक्षणार्थखाच्चास्य सर्वादेशकारिणः । 'एके' केचन मोहोदये वर्तमानाः स्त्रीणां निर्देशवर्तिनोऽपहस्तितैहिकामुष्मिकापाया उष्ट्रा इव परवशा भारवाहा भवन्तीति ॥ १६ ।। किश्चान्यत्
1 एतच्छलोकद्वयमपि वतनष्ठेन धर्मकीर्तिना भाषितमिति वि.प.।
20992969200000000000
02012900403930202016302929
~241~