________________
आगम
(०२)
प्रत
सूत्रांक
दीप
अनुक्रम
[-]
सूत्रकृताङ्गं शीलाङ्का
चार्ययतियुर्त
॥ ९ ॥
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [-] मूलं [-], निर्युक्तिः [२८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
तु
तत्राद्यमध्ययनं समयारूयं तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमणमुपक्रम्यते वाऽनेन शास्त्रं न्यासदेशं - निक्षेपावसरमानीयत इत्युपक्रमः, स च लौकिको नामस्थापनाद्रव्यक्षेत्रकाल भावभेदेन पडूप आवश्यकादिष्वेव प्रपश्चितः, शास्त्रीयोऽप्यानुपूर्वीनामप्रमाणवक्तव्यताऽर्थाधिकारसमवताररूपः षोढैव, तत्रानुपूर्व्यादीन्यनुयोगद्वारानुसारेण ज्ञेयानि तावद्यावत्समवतारः तत्रैतदध्ययनमानुपूर्व्यादिषु यत्र यत्र समवतरति तत्र तत्र समवतारयितव्यं, तत्र दशविधायामानुपूर्व्या गणनानुपूर्व्यं समवतरति, | सापि त्रिधा - पूर्वानुपूर्वी पञ्चानुपूर्वी अनानुपूर्वी चेति, तत्रेदमध्ययनं पूर्वानुपूर्व्या प्रथमं पचानुपूर्व्या पोडशम् अनानुपूर्व्यां तु चिन्त्यमानमस्यामेवैकादिकायामेको तरिकायां षोडशगच्छगतायां श्रेण्यामन्योऽन्याभ्यासद्विरूपोनसंख्या भेदं भवति । अनानुपूर्व्या भेदसंख्यापरिज्ञानोपायोऽयं तद्यथा- 'एकाद्या गच्छपर्यन्ताः परस्परसमाहताः । राशयस्तद्धि विज्ञेयं, विकल्पगणिते फलम् ॥ १ ॥' प्रस्तारानयनोपायस्त्रयम् - "पुचाणुपुवि हेडा समयाभेएण कुण जहाजेहं । उवरिमतुद्धं पुरज नसेज पुत्रकमो सेसे ||१|| ” तत्र - 'गणिते ऽन्त्यविभक्ते तु लब्धं शेषैर्विभाजयेत् । आदावन्ते च तत् स्थाप्यं, विकल्पगणिते क्रमात् ||१||' अयं लोकः शिष्यहितार्थं वित्रियते तत्र सुखावगमार्थं षट् पदानि समाश्रित्य तावद श्लोकार्थी योज्यते, तत्रैवं १२३४५६ षट् पदानि स्याप्यानि एतेषां | परस्परताडनेन सप्त शतानि विंशत्युत्तराणि गणितमुच्यते, तस्मिन् गणितेऽन्त्योऽत्र पट्कः तेन भागे हते विंशत्युत्तरं शतं लभ्यते तच | षण्णां पङ्कीनामन्त्यपङ्कौ षट्कानां न्यस्यते, तदधः पञ्चकानां विंशत्युत्तरमेव शतम्, एवमधोऽभवतुष्कत्रिकाद्विकैककानां प्रत्येकं विंशत्युत्तरशतं न्यस्यम्, एवमन्त्यपक्कौ सप्त शतानि विंशत्युत्तराणि भवन्ति, एषा च गणितप्रक्रियाया आदिरुच्यते, तथा यसि शत्युतरं शतं लब्धं तस्य च पुनः शेषेण पञ्चकेन भागेऽपहृते लब्धा चतुर्विंशतिः, सावन्तस्तावन्तश्च पञ्चकचतुष्कत्रिकद्विकैककाः
अध्ययनस्य अर्थाधिकारः, प्रथम अध्ययन- 'समय' स्य आरम्भः
For Pernal Use On
~ 22~
stat statio
१ समयाध्ययने अनुयोगद्वाराणि
॥९॥
wancarary.org