________________
आगम
(०२)
प्रत
सूत्रांक
||१९||
दीप
अनुक्रम
[२६५]
“सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१९], निर्युक्ति: [६३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
| सयं दुक्कडं च न वदति, आइडोवि पकत्थति बाले । वेयाणुवीइ मा कासी, चोइज्जतो गिलाइ से भुज्जो ९९ ॥ ओसियावि इत्थिपोसेसु, पुरिसा इत्थिवेयखेदन्ना । पण्णासमन्निता वेगे, नारीणं वसं उवकसंति ॥२०॥
'स्वयम्' आत्मना प्रच्छन्नं यद्दुष्कृतं कृतं तदपरेणाचार्यादिना पृष्टो 'न वदति' न कथयति, यथा अहमस्याकार्यस्य कारीति, स च प्रच्छन्नपापो मायावी स्वयमवदन् यदा परेण 'आदिष्टः' चोदितोऽपि सन् 'बालः' अज्ञो रागद्वेषकलितो वा 'प्रकत्थते' | आत्मानं श्लाघमानोऽकार्यमपलपति, वदति च - यथाऽहमेवम्भूतमकार्यं कथं करिष्ये इत्येवं धायात्कथते, तथा-वेद:पुंवेदोदयस्तस्य 'अनुवीधि' आनुकूल्यं मैथुनाभिलापं तन्मा कार्षीरित्येवं 'भूयः' पुनः चोद्यमानोऽसौ 'ग्लायति' ग्लानिमुपयाति-अकर्णश्रुतं विधत्ते, मर्मविद्धो वा सखेदमिव भापते, तथा चोक्तम्- “सम्भाव्यमानपापोऽहमपापेनापि किं मया । निविषस्यापि सर्पस्य, भृशमुद्विजते जनः ॥ १ ॥ " इति ।। १९ ।। अपिच - स्त्रियं पोपयन्तीति स्त्रीपोषका – अनुष्ठानविशेषास्तेषु 'उषिता अपि' व्यवस्थिता अपि 'पुरुषा' मनुष्या भुक्तभोगिनोऽपीत्यर्थः तथा— 'स्त्रीवेदखेदज्ञा:' स्त्रीवेदो मायाप्रधान इत्येवं निपुणा अपि तथा प्रज्ञया औत्पत्तिक्यादिबुध्ध्या समन्विता - युक्ता अपि 'एके' महामोहान्धचेतसो 'नारीणां' स्त्रीणां संसारावतरणवीथीनां 'व' तदायत्ततामुप - सामीप्येन 'कषन्ति' व्रजन्ति, यद्यद्यत्ताः स्वशायमाना अपि कार्यमकार्य वा श्रुचते तचत्कुर्वते, न पुनरेतज्जानन्ति यथैता एवम्भूता भवन्तीति, तद्यथा--"एता हसन्ति च रुदन्ति च कार्यहेतोर्विश्वासयन्ति च
१ श्रियः प्र० ।
Education Internationa
For Park Use Only
~ 225~