________________
आगम
(०२)
प्रत
सूत्रांक
||२१||
दीप
अनुक्रम
[२२४]
सूत्रकृता शीलाङ्काचायसियुर्त
॥ ९४ ॥
“सूत्रकृत्” - अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [३], मूलं [२१], निर्युक्ति: [५०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र [०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
गच्छेत् तेन पराविरोधकारणेन तत्तदविरुद्धमनुष्ठानं वचनं वा 'समाचरेत्' कुर्यादिति ॥ १९ ॥ तदेवं परमतं निराकृत्योपसं| हारद्वारेण स्वमतस्थापनायाह- 'इम' मिति वक्ष्यमाणं दुर्गतिधारणाद्धर्मम् 'आदाय' उपादाय गृहीता 'काश्यपेन' श्रीमन्म| हावीरवर्द्धमानस्वामिनोत्पन्नदिव्यज्ञानेन सदेवमनुजायां पर्षदि प्रकर्षेण — यथावस्थितार्थनिरूपणद्वारेण वेदितं प्रवेदितं चशब्दात्परमतं च निराकृत्य, भिक्षणशीलो भिक्षु: 'ग्लानस्य' अपटोरपरस्य भिक्षोर्वैयावृत्र्यादिकं कुर्यात् कथं कुर्याद् १, एतदेव विशि| नष्टि - स्वतोऽप्यग्लानतया यथाशक्ति 'समाहित' समाधिं प्राप्त इति इदमुक्तं भवति -- यथा यथाऽऽत्मनः समाधिरुत्पद्यते न तत्करणेन अपाटवसंभवात् योगा विषीदन्तीति, तथा यथा तस्य व ग्लानस्य समाधिरुत्पद्यते तथा पिण्डपातादिकं विधेयमिति ॥ २० ॥ किं कृत्वैतद्विधेयमिति दर्शयितुमाह--- 'संखाये' त्यादि, संख्याय - ज्ञात्वा कं ?- 'धर्म' सर्वज्ञप्रणीतं श्रुतचारित्रारूयभेदभिनं 'पेशलम्' इति सुलिष्टं प्राणिनामहिंसादिप्रवृत्या प्रीतिकारणं, किम्भूतमिति दर्शयति-दर्शनं दृष्टिः सद्भूतपदार्थगता | सम्यग्दर्शनमित्यर्थः सा विद्यते यस्यासौ दृष्टिमान् यथावस्थितपदार्थपरिच्छेदवानित्यर्थः, तथा 'परिनिर्वृतो' रागद्वेष विरहाच्छान्तीभूतस्तदेवं धर्म पेशलं परिसंख्याय दृष्टिमान् परिनिर्वृत उपसर्गाननुकूलप्रतिकूलान्नियम्य - संयम्य सोढा, नोपसर्गेरुपसर्गितोऽसमञ्जसं विदध्यादित्येवम् 'आमोक्षाय' अशेषकर्मक्षयप्राप्तिं यावत् परि - समन्तात् व्रजेत् - संयमानुष्ठानोद्युक्तो भवेत् परिव्रजेद्, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ २१ ॥ उपसर्गपरिज्ञायास्तृतीयोदेशकः समाप्तः ॥ ३ ॥
Education Internationa
-099604
For Parts Only
~ 192~
tatatatataese
३ उपस गोध्य० उद्देशः ३
॥ ९४ ॥