________________
आगम
(०२)
प्रत
सूत्रांक
||२०||
दीप
अनुक्रम
[२०१]
“सूत्रकृत्” - अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [२] मूलं [२०], निर्युक्ति: [५०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
चर्या-दशविधचक्रवालसामाचारी इच्छा मिच्छेत्यादिका तथा चोदितां:- प्रेरिता यदिवा भिक्षुचर्यया करणभूतया सीदन्तश्रोदिताः -- तत्करणं प्रत्याचार्यादिकैः पौनःपुन्येन प्रेरितास्तच्चोदनामशकुवन्तः संयमानुष्ठानेनात्मानं 'यापयितुं' वर्तयितुमसमर्थाः सन्तः 'तत्र' तस्मिन् संयमे मोक्षेकगमनहेती भवकोटिशतावासे 'मन्दा' जडा 'विषीदन्ति' शीतलविहारिणो भवन्ति, तमेवाचिन्त्यचिन्तामणिकल्पं महापुरुषानुचीर्णं संयमं परित्यजन्ति, दृष्टान्तमाह- ऊर्ध्वं यानमुद्यानं मार्गस्योन्नतो भाग उङ्कमित्यर्थः तस्मिन् उद्यानशिरसि उत्क्षिप्तमहामरा उक्षाणोऽतिदुर्बला यथाऽवसीदन्ति-ग्रीवां पातयित्वा तिष्ठन्ति नोत्क्षिप्तभरनिर्वाहका भवन्तीत्येवं तेऽपि भावमन्दा उत्क्षिप्रपञ्च महाव्रतमारं वोदुमसमर्थाः पूर्वोक्तभावावर्तैः पराभना विषीदन्ति ॥२०॥ किश्वअचयंता व लूहेणं, उवहाणेण तज्जिया । तत्थ मंदा विसीयंति, उज्जाणंसि जरग्गवा ॥ २१ ॥ एवं निमंतणं लडं, मुच्छिया गिद्ध इत्थीसु । अज्झोववन्ना कामेहिं, चोइजंता गया गिहं ॥ २२ ॥ तिबेमि ॥ इति उवसग्गपरिण्णाए बितिओ उद्देसो सम्मत्तो ॥ ३-२ ॥ ( गाथाग्रं० २१३ ) 'क्षण' संयमेनात्मानं यापयितुमशक्नुवन्तः तथा 'उपधानेन' अनशनादिना सबाह्याभ्यन्तरेण तपसा 'तर्जिता' बाधिताः सन्तः तत्र संयमे मन्दा विषीदन्ति 'उद्यानशिरसि' उट्टङ्कमस्तके 'जीणों' दुर्बलो गौरिव, यूनोऽपि हि तत्रावसीदनं सम्भाव्यते
१ बाधिता इति प्र० २ तु प्र०
Education Internationa
For Park Use Only
~ 179~