________________
आगम
(०२)
प्रत
सूत्रांक
दीप
अनुक्रम
[-]
सूत्र. २
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ - ], उद्देशक [ - ], मूलं [ - ], निर्युक्तिः [१९] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
किं खनेकयोगधराः, तत्र योगः-क्षीराश्रवादिलब्धिकलापसंबन्धस्तं धारयन्तीत्यनेक योगधरास्तेषां प्रभाषितमिति सूत्रकृताङ्गा|पेक्षया नपुंसकता, साधवचात्र गणधरा एव गृह्यन्ते, तदुदेशेनैव भगवतामर्थप्रभाषणादिति, ततोऽर्थ निशम्य गणधरैरपि वाग्योगेनैव कृतं तच्च जीवस्य 'खाभाविकेन गुणेनेति' स्वस्मिन् भावे भवः स्वाभाविकः प्राकृत इत्यर्थः, प्राकृतभाषयेत्युक्तं भवति, न पुनः संस्कृतया ललिश प्रकृतिप्रत्ययादि विकारविकल्पनानिष्पन्नयेति ॥ १९ ॥ पुनरन्यथा सूत्रकृतनिरुक्तमाहअक्खरगुणमतिसंघायणाऍ कम्मपरिसाडणाए य । तदुभयजोगेण कथं सुत्तमिणं तेण सूतगडं ॥ २० ॥ अक्षराणि - अकारादीनि तेषां गुणः - अनन्तगमपर्यायवत्त्वमुच्चारणं वा, अन्यथाऽर्थस्य प्रतिपादयितुमशक्यत्वात् मतेः-मति| ज्ञानस्य संघटना मतिसंघटना, अक्षरगुणेन मतिसंघटना अक्षरगुणमतिसंघटना, भावश्रुतस्य द्रव्यश्रुतेन प्रकाशनमित्यर्थः, अक्षरगुणस्य वा मत्या बुद्ध्या संघटना रचनेतियावत् तयाऽक्षरगुणमतिसंघटनया, तथा कर्मणां ज्ञानावरणादीनां परिशाटना-जी| वप्रदेशेभ्यः पृथकरणरूपा तथा च हेतुभूतया, सूत्रकृताङ्गं कृतमिति संबन्धः, तथाहि यथा यथा गणधराः सूत्रकरणायोद्यमं कुर्वन्ति तथा तथा कर्मपरिशाटना भवति, यथा यथा च कर्मपरिशाटना तथा तथा ग्रन्थरचनायोद्यमः संपद्यत इति एतदेव गाथापश्चाधेन दर्शयति- 'तदुभययोगेनेति' अक्षरगुणमतिसंघटनायोगेन कर्मपरिशाटनायोगेन च, यदिवा वाम्योगेन मनोयोगेन च कृतमिदं सूत्रं तेन सूत्रकृतमिति ॥ २० ॥ इहानन्तरं सुत्रकृतस्य निरुक्तमुक्तम्, अधुना सूत्रपदस्य निरुक्ताभिधित्सयाऽऽहसुतेण सुत्तिया चिप अत्था तह सहयां य जुत्तां य। तो बहुविहप्पैउत्ता एय पसिद्धा अणादीया ॥२१॥ १ प्रोताः २ युज्यमानाः ३ चढण जाण पंचावयवविशेषेण वाचू
अन्यरूपेण 'सूत्रकृत' शब्दस्य निर्युक्तिः
For Park at Use Only
~17~