________________
आगम
(०२)
प्रत
सूत्रांक
||१०||
दीप
अनुक्रम [१९१]
“सूत्रकृत्” - अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [२] मूलं [१०], निर्युक्ति: [५०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
'ज्ञातयः' खजनाः 'तं' यति असमाधिना प्रतिबध्नन्ति, ते तत्कुर्वन्ते येनास्यासमाधिरुत्पद्यत इति, तथा चोक्तम् - "अंमित्तो मितवेसेणं, कंठे घेतूण रोयह । मा मित्ता ! सोग्गइं जाहि, दोवि गच्छामु दुग्गई ॥ १ ॥ # ॥ १० ॥ अपिच
विबद्धो नातिसंगेहिं, हत्थीवावी नवग्गहे। पिट्टतो परिसप्पंति, सुयगोव अदूरए ॥ ११ ॥
एते संगा मणूसाणं, पाताला व अतारिमा । कीवा जत्थ य किस्संति, नाइसंगेहिं मुच्छिया ॥ १२ ॥ विविधं बद्धः-परवशीकृतः विबद्धो ज्ञातिसङ्गैः मातापित्रादिसम्बन्धैः, ते च तस्य तस्मिन्नवसरे सर्व मनुकुलमनुतिष्ठन्तो धृतिमुत्पादयन्ति, हस्तीवापि 'नवग्रहे' अभिनव ग्रहणे, (यथा स ) घृत्युत्पादनार्थमिक्षुशकला दिभिरुपचर्यते, एवमसावपि सर्वानुकूलैरुपायैरुपचर्यते, दृष्टान्तान्तरमाह-यथाऽभिनवप्रसूता गौर्निजस्तनन्धयस्य 'अदूरगा' समीपवर्तिनी सती पृष्ठतः परिसर्पति, एवं | तेऽपि निजा उत्प्रव्रजितं पुनर्जातमिव मन्यमानाः पृष्ठतोऽनुसर्पन्ति तन्मार्गानुयायिनो भवन्तीत्यर्थः ॥ ११ ॥ सङ्गदोषदर्शनायाह| 'पते' पूर्वोक्ताः सज्यन्त इति सङ्गाः - मातृपित्रादिसम्बन्धाः कर्मोपादानहेतवः, मनुष्याणां 'पाताला इव' समुद्रा इवाप्रतिष्ठितभूमितलात् ते 'अतारिम'ति दुस्तराः, एवमेतेऽपि सङ्गा अल्पसच्चैर्दुः खेनातिलङ्कयन्ते, 'यत्र च' येषु सङ्गेषु 'क्लीया' असमर्थाः 'क्लिश्यन्ति' लेशमनुभवन्ति, संसारान्तर्वर्तिनो भवन्तीत्यर्थः किंभूताः १- 'ज्ञातिसङ्गैः' पुत्रादिसम्बन्धैः 'मूच्छिता' गृद्धा अध्युपपन्नाः सन्तो, न पर्यालोचयन्त्यात्मानं संसारान्तर्वर्तिनमेवं क्लिश्यन्तमिति ॥ १२ ॥ अपिच
अणि कण्ठे गृहीत्वा रोदिति मा मित्र सुगतीर्याः द्वावपि गच्छावो दुर्गतिम् ॥ १ ॥
Ja Eucation Internation
For Pasta Use Only
~175~