________________
आगम
(०१)
प्रत
सूत्रांक
[84]
दीप
अनुक्रम
[१९]
आ. स.
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [३], मूलं [१८], निर्युक्तिः [११५] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
Estication tamational
- 'अमायं कुव्यमाणे ति माया - सर्वत्र स्ववीर्यनिगूहनं, न माया अमाया तां कुर्वाणः, अनिगूहितबलवीर्यः संयमानु| ष्ठाने पराक्रममाणोऽनगारो व्याख्यात इति, अनेन तज्जातीयोपादानादशेषकपायापगमोऽपि द्रष्टव्य इति उक्तं च - "सोही र्य उज्जुयभूयस्स, धम्मो युद्धस्स चिठ्ठद्द" ति ।। तदेवमसावुद्धृतसकलमायावल्लीवितानः किं कुर्यादित्याह
जाए सछाए निक्खतो तमेव अणुपालिज्जा, वियहित्ता विसोत्तिय ( सूत्र० १९ )
'यथा श्रद्धया' प्रवर्द्धमानसंयमस्थानकण्डकरूपया 'निष्क्रान्तः' प्रव्रज्यां गृहीतवान् 'तामेव' श्रद्धामश्रान्तो यावज्जीवम् 'अनुपालयेद्' रक्षेदित्यर्थः, प्रव्रज्याकाले च प्रायशः प्रवृद्धपरिणाम एव प्रव्रजति, पश्चात्तु संयमश्रेणी प्रतिपन्नो वर्द्धमानपरिणामो वा हीयमानपरिणामो वा अवस्थितपरिणामो वेति, तत्र वृद्धिकालो हानिकालो वा समयाद्युत्कर्षेणान्तमहर्त्तिकः, नातः परं सङ्केशविशुज्य द्वे भवतः, उक्तं च- "नान्तर्मुहर्सकालमतिवृत्य शक्यं हि जगति सक्तेष्टुम् । नापि विशोद्धुं शक्यं प्रत्यक्षो ह्यात्मनः सोऽर्थः ॥ १ ॥ उपयोगद्वयपरिवृत्तिः सा निर्हेतुका स्वभावत्वात् । आत्मप्रत्यक्षो हि स्वभावो व्यर्थाsत्र हेतूक्तिः ॥ २ ॥” अवस्थितकालश्च द्वयोर्वृद्धिहानिलक्षणयोर्यवमध्यवज्रमध्ययोरष्टौ समयाः, तत ऊर्द्धमवश्यं पातात्, अयं च वृद्धिहान्यवस्थितरूपः परिणामः केवलिनां निश्चयेन गम्यो न छद्मस्थानामिति । यद्यपि च प्रव्रज्याभिगमोत्तरकालं श्रुतसागरमवगाहमानः संवेगवैराग्यभावनाभावितान्तरात्मा कश्चित्प्रवर्द्धमानमेव परिणामं १ शोभिधभूतस्य धर्मः शुद्धस्य तिष्ठति २ संजोयं इति पा
संयम श्रद्धा वृद्धिकरणे उपदेश:
For Party Use Onl
~89~#