________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [१८], नियुक्ति: [११५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचाः
अध्ययनं १ उद्देशकः ३
सूत्रांक
[१८]
दीप अनुक्रम [१९]
'से बेमी'त्यादि अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके परिसमाप्तिसूत्रे 'पृथिवीकायसमारम्भव्यावृत्तो राङ्गवृत्तिः मुनि रित्युक्तं, न चैतावता सम्पूर्णो मुनिर्भवति, यथा च भवति तथा दर्शयति, तथाऽऽदिसूत्रेणार्य सम्बन्धः-सुधर्म(शी०) ४ स्वामी इदमाह-श्रुतं मया भगवदन्तिके यत् प्राक् प्रतिपादितमन्यच्चेदमित्येवं परम्परसूत्रसम्बन्धोऽपि प्राग्वद्वाच्यः। ॥४२॥
सेशब्दस्तच्छब्दार्थो, स यथा पृथिवीकायसमारम्भव्यावृत्त्युत्तरकालं सम्पूर्णानगारव्यपदेशभाग भवति तदहं ब्रवीमि, अपिः समुच्चये, स यथा वाऽनगारो न भवति तथा च ब्रवीमि 'अणगारा मो त्ति एगे पयवमाणे'त्यादिनेति, न विद्यते अगारं-गृहमस्येत्यनगारः, इह च यत्यादिशब्दव्युदासेनानगारशब्दोपादानेनैतदाचष्टे-गृहपरित्यागः प्रधानं मु| नित्वकारणं, तदाश्रयत्वात्सायद्यानुष्ठानस्य, निरवद्यानुष्ठायी च मुनिरिति दर्शयति-'उज्जुकडे'त्ति ऋजुः-अकुटिलः संयमो दुष्प्रणिहितमनोवाकायनिरोधः सर्वसत्त्वसंरक्षणप्रवृत्तत्वायैकरूपः, सर्वत्राकुटिलगतिरितियावत्, यदिवा
मोक्षस्थानगमनर्जुश्रेणिप्रतिपत्तिः सर्वसवरसंयमात्, कारणे कार्योपचारं कृत्वा संयम एव सप्तदशप्रकार ऋजुः ते करोदातीति ऋजुकृत्, ऋजुकारीत्यर्थः । अनेन चेदमुक्तं भवति-अशेषसंयमानुष्ठायी सम्पूर्णोऽनगारः, एवंविधश्चेदग भव
तीति दर्शयति-नियागपडिवन्नेत्ति, यजनं यागः नियतो निश्चितो वा यागो नियागो-मोक्षमार्गः, सङ्गतार्थत्वाद्धातोः सम्यगज्ञानदर्शनचारित्रात्मतया गतं सनातमिति, तं नियागं-सम्यग्दर्शनज्ञानचारित्रात्मकं मोक्षमार्ग प्रतिपन्नो नियाग प्रतिपन्नः, पाठान्तरं वा 'निकायप्रतिपन्नो' निर्गतः काया-औदारिकादिर्यस्माद्यस्मिन्या सति स निकायो-मोक्षस्तं प्रतिपन्नो निकायप्रतिपन्ना, तत्कारणस्य सम्यग्दर्शनादेः स्वशत्याऽनुष्ठानात्, स्वशत्याऽनुष्ठानं चामायाविनो भवतीति दर्शयति |
~88~#