________________
आगम
(०१)
प्रत
सूत्रांक
[१७]
दीप
अनुक्रम
[८]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [१७...], निर्युक्तिः [११०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
दिप्रविभागं चेतनावद् दृष्टम् एषा एवोपमा अष्कायजीवानामपीति, हस्तिशरीरकललग्रहणं च महाकायत्वात्तद्बहु भवतीत्यतः सुखेन प्रतिपद्यते, अधुनोपपन्नग्रहणं सप्ताहपरिग्रहार्थे, यतः सप्ताहमेव कललं भवति, परतस्त्वर्बुदादि, | अण्ड केऽप्युदकग्रहणमेवमर्थमेव, प्रयोगश्चायम् - सचेतना आपः शस्त्रानुपहतत्वे सति द्रवत्वात्, हस्तिशरीरोपादानभूतकललवत्, विशेषणोपादानात्प्रश्रवणादिव्युदासः, तथा सात्मकं तोयम्, अनुपहतद्रवत्वाद्, अण्डकमध्यस्थितकललवदिति, तथा आपो जीवशरीराणि, छेद्यत्वाद्भेद्यत्वादुत्क्षेप्यत्वाद्भोज्यत्वादोग्यत्वात् घेयत्वाद्रसनीयत्वात् स्पर्शनीयस्वात् दृश्यत्वाद् द्रव्यत्वाद् एवं सर्वेऽपि शरीरधर्मा हेतुत्वेनोपन्यसनीयाः, गगनवर्जभूतधर्माश्च रूपवत्त्वाकारवत्त्वादयः, सर्व्वत्र चायं दृष्टान्तः - सास्नाविषाणादिसङ्घातबदिति, ननु च रूपवत्त्वाकारवत्त्वादयो भूतधर्माः परमाणुष्वपि दृष्टा इत्यनैकान्तिकता, नैतदेवं यदत्र छेद्यत्वादिहेतुत्वेनोपन्यस्तं तत्सर्वमिन्द्रियव्यवहारानुपाति, न च तथा परमाणवः, अतः प्रकरणादतीन्द्रियपरमाणुव्यवच्छेदः, यदिवा नैवासौ विपक्षः, सर्वस्य पुद्गलद्रव्यस्य द्रव्यशरीराभ्युपगमात्, जीवसहितासहितत्वं तु विशेषः, उक्तं च- “तणवोऽण भातिविगार मुत्तजाइत्तओऽणिलता उ । सत्यासत्यहयाओ निज्जीवसजीवरुवाओ ॥ १ ॥” एवं शरीरखे सिद्धे सति प्रमाणं- सचेतना हिमादयः कचित् अपकायत्वाद्, इतरोदकवत् इति, तथा सचेतना आपः, क्वचित् खातभूमिस्वाभाविकसम्भवत्वाद्, दर्दुरवत्, अथवा सचेतना अन्तरिक्षोद्भवा १ वनोऽयादिविकारा मूर्त्तजातित्वतः अनिलान्तास्तु । शस्त्रास्त्रता निर्जीवजीरूपाः ॥१ ॥
Etication Intimation
For Pantry at Use Only
~85~#
www.sinditary.org