SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१७०] दीप अनुक्रम [५०४ ] श्रीआचा राङ्गवृत्तिः (शी०) ॥ ४१३ ॥ “आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], चुडा [२], सप्तैकक [४], उद्देशक [-], मूलं [१७०], निर्युक्तिः [३२३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः ॥ से भि० नो इहलोइपहिं सदेहिं नो परलोइएहिं स० नो सुपहिं स० नो असुएहिं स० नो दिट्ठेहिं सदेहिं नो अदिद्वेहिं स० नो कंतेहिंं सदेहिं सजिना नो गिज्झिना नो मुझिजा नो अज्झोववज्जिज्जा, एवं खलु० जाव जज्ञासि ( सू० १७० ) तिबेमि ॥ सहसत्तिक ।। २-२-४ ॥ स भिक्षुः 'आख्यायिकास्थानानि' कथानकस्थानानि, तथा 'मानोन्मानस्थानानि' मानं - प्रस्थकादिः उन्मानंनाराचादि, यदिवा मानोम्मानमित्यश्वादीनां वेगादिपरीक्षा तत्स्थानानि तद्वर्णनस्थानानि वा, तथा महान्ति च तानि आहतनृत्यगीतवादित्र तन्त्रीतलतालत्रुटितप्रत्युत्पन्नानि च तेषां स्थानानि सभास्तद्वर्णनानि वा श्रवणप्रतिज्ञया नाभिसन्धारयेद्गमनायेति ॥ किञ्च - कलहादिवर्णनं तत्स्थानं वा श्रवणप्रतिज्ञया न गच्छेदिति ॥ अपि च-स भिक्षुः क्षुल्लिकां 'दारिकां' डिक्करिकां मण्डितालङ्कृतां बहुपरिवृतां 'णिवुज्झमाणि'ति अश्वादिना नीयमानां तथैकं पुरुषं वधाय नीयमानं प्रेक्ष्याहमत्र किञ्चिच्छ्रोष्यामीति श्रवणार्थं तत्र न गच्छेदिति । स भिक्षुर्यान्येवं जानीयात्, महान्त्येतान्याश्रवस्थानानि - पापोपादानस्थानानि वर्त्तन्ते, तद्यथा बहुशकटानि बहुरथानि बहुम्लेच्छानि बहुप्रात्यन्तिकानि, इत्येवंप्रकाराणि स्थानानि श्रवणप्रतिज्ञया नाभिसन्धारयेद् गन्तुमिति ॥ किञ्च स भिक्षुर्महोत्सवस्थानानि यान्येवंभूतानि जानीयांत्, तद्यथा - स्त्रीपुरुषस्थविरबालमध्यवयांस्येतानि भूषितानि गायनादिकाः क्रिया यत्र कुर्वन्ति तानि स्थानानि श्रवणेच्छया न गच्छेदिति ॥ इदानीं सर्वोपसंहारार्थमाह-सः 'भिक्षुः' ऐहिकामुष्मिकापायभीरुः 'नो' नैव 'ऐहलोकिकैः ' मनुष्यादिकृतैः 'पारलोकिकैः पारापतादिकृतैरैहिकामुष्मिकैर्वा शब्दैः तथा श्रुतैरश्रुतैर्वा, तथा साक्षादुपलब्धै Estication Intimational For Party Use Onl ~831~# श्रुतस्कं० २ चूलिका २ शब्दसंत कका. ४- ( ११ ) ॥ ४१३ ॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy