________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [५], उद्देशक [१], मूलं [१४०...], नियुक्ति: [३१५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीभाचाराङ्गवृत्तिः (शी०)
श्रुतस्कं०२ चूलिका वस्त्रैष०५ | उद्देशः १
सूत्रांक
[१४०]
॥३९२॥
दीप
अथ वस्त्रैषणाऽध्ययनम् । चतुर्थाध्ययनानन्तरं पञ्चममारभ्यते, अस्य चायमंभिसम्बन्धः-इहानन्तराध्ययने भाषासमितिः प्रतिपादिता, तदनन्तरमेषणासमितिर्भवतीति सा वस्त्रगता प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उप-1 क्रमादीनि भवन्ति, तत्रोपक्रमान्तर्गतोऽध्ययनार्थाधिकारो वस्त्रैषणा प्रतिपाद्येति, उद्देशार्थाधिकारदर्शनार्थं तु नियुक्तिकार आह
पढमे गहणं बीए धरणं पगयं तु दब्बवत्थेणं । एमेव होइ पायं भावे पायं तु गुणधारी ॥ ३१५ ॥ प्रथमे उद्देशके वस्त्रग्रहणविधिः प्रतिपादितः, द्वितीये तु धरणविधिरिति ॥ नामनिष्पन्ने तु निक्षेपे वखैषणेति, तत्र वस्त्रस्य नामादिश्चतुर्विधो निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यवस्त्रं त्रिधा, तद्यथा-एकेन्द्रियनिष्पन्नं कार्पासिकादि, 8 विकलेन्द्रियनिष्पन्नं चीनांशुकादि, पञ्चेन्द्रियनिष्पन्नं कम्बलरक्षादि, भाववस्त्रं त्वष्टादशशीलाङ्गसहस्राणीति, इह तु द्रव्य
वस्त्रेणाधिकारः, तदाह नियुक्तिकारः-'पगयं तु दब्ववत्थेणीति । वस्त्रस्येव पात्रस्यापि निक्षेप इति मन्यमानोऽत्रैव पात्रस्यापि | निक्षेपातिनिर्देशं नियुक्तिकारो गाथापश्चा?नाह-'एवमेव' इति वस्त्रवसात्रस्यापि चतुर्विधो निक्षेपः, तत्र द्रव्यपात्रमेके|न्द्रियादिनिष्पन्नं, भावपात्रं साधुरेव गुणधारीति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
से मि० अभिकंखिज्जा वत्वं एसित्तए, से जं पुण वत्थं जाणिज्जा, तंजहा-जंगियं वा भंगिय वा साणिय वा पोत्तगं वा
अनुक्रम [४७४]
॥३९२॥
wwwandltimaryam
प्रथम चूलिकाया: पंचम-अध्ययनं “वस्त्रैषणा", आरब्धं प्रथम चूलिकाया: पंचम-अध्ययनं “वस्त्रैषणा", प्रथम-उद्देशक: आरब्ध:
~789~#