SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१३२] दीप अनुक्रम [४६६ ] “आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [ ४ ], उद्देशक [१]. मूलं [१३२], निर्युक्तिः [३१४] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः | वचनविधिगतां दर्शयति- ' तद्यथे' त्ययमुपप्रदर्शनार्थः एकवचनं वृक्षः १, द्विवचनं वृक्षौ २, बहुवचनं वृक्ष इति ३, स्त्रीवचनं वीणा कन्या इत्यादि ४, पुंवचनं घटः पट इत्यादि ५, नपुंसकवचनं पीठं देवकुलमित्यादि ६, अध्यात्मवचनम्, आत्मन्यधि अध्यात्मं - हृदयगतं तत्परिहारेणान्यद्भणिष्यतस्तदेव सहसा पतितम् ७, 'उपनीतवचनं' प्रशंसावचनं यथा रूपवती स्त्री ८, तद्विपर्ययेणापनीतवचनं यथेयं रूपहीनेति ९, 'उपनीतापनीतवचनं' कश्चिद् गुणः प्रशस्यः कश्चिन्निन्द्यो, यथा-रूपवतीयं स्त्री किन्त्वसद्वृत्तेति १०, 'अपनीतोपनीतवचनम्' अरूपवती स्त्री किन्तु सद्वृत्तेति ११, 'अतीतवचनं' कृतवान् १२ 'वर्त्तमानवचनं' करोति १३ 'अनागतवचनं' करिष्यति १४ 'प्रत्यक्षवचनम्' एष देवदत्तः १५, 'परोक्षवचनं' स देवदत्तः १६, इत्येतानि षोडश वचनानि, अमीषां स भिक्षुरेकार्थविवक्षायामेकवचनमेव ब्रूयाद् यावत्परोक्षवचनविवक्षायां परोक्षवचनमेव ब्रूयादिति । तथा ख्यादिके दृष्टे सति रूयेवैषा पुरुषो वा नपुंसकं वा, एवमेवैतदन्यद्वैतत् एवम् 'अनुविचिन्त्य' निश्चित्य निष्ठाभाषी सन् समित्या समतया संयत एव भाषां भाषेत, तथा 'इत्येतानि' पूर्वोक्तानि भाषागतानि वक्ष्यमाणानि वा 'आयतनानि' दोषस्थानानि 'उपातिक्रम्य' अतिलङ्घन्ध भाषां भाषेत । अथ स भिक्षुर्जानीयात् 'चत्वारि भाषाजातानि' चतस्रो भाषाः, तद्यथा-सत्यमेकं प्रथमं भाषाजातं यथार्थम् अवितथं, तद्यथागोगोरेवाश्वोऽश्व एवेति १, एतद्विपरीता तु मृषा द्वितीया, यथा गौरश्वोऽश्वो गौरिति २, तृतीया भाषा सत्यामृषेति, यत्र किञ्चित्सत्यं किञ्चिन्मृषेति, यथाऽश्वेन यान्तं देवदत्तमुष्ण यातीत्यभिदधाति ३, चतुर्थी तु भाषा योच्यमाना न सत्या नापि मृषा नापि सत्यामृषा आमन्त्रणाज्ञापनादिका साऽत्रासत्याऽमृषेति ४ ॥ स्वमनीषिकापरिहारार्थमाह Jan Estication Intematonal For Pantry at Use Only ~778 ~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy