________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [४], उद्देशक [१], मूलं [१३२], नियुक्ति: [३१४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१३२]]
95%
॥३८६॥
%
4
दीप अनुक्रम [४६६]
श्रीआचा-18साधुभिरनाचीर्णपूर्वान् साधुर्जानीयात् , तद्यथा-ये केचन क्रोधादा वाचं 'विउंजन्ति' विविधं व्यापारयन्ति-भाषन्ते श्रुतस्कं०२ रावृत्तिः
यथा चौरस्त्वं दासस्त्वमित्यादि तथा मानेन भाषन्ते यथोत्तमजातिरह हीनस्त्वमित्यादि तथा मायया यथा ग्लानो- चूलिका १ (शी०)
हमपरसन्देशक वा सावद्यक केनचिदुपायेन कथयित्वा मिथ्यादुष्कृतं करोति सहसा ममैतदायातमिति तथा लोभे- भाषा०४ 8 नाहमनेनोकेनातः किचिल्लप्स्य इति तथा कस्यचिद्दोषं जानानास्तहोपोद्घटनेन परुष वदन्ति अजानाना चा, सर्वं चैत-I उद्देशः १
क्रोधादिवचनं सहावद्येन-पापेन गर्येण वा वर्तत इति सावधं तद्वर्जयेत् विवेकमादाय, विवेकिना भूत्वा सावधं वचनं| वर्जनीयमित्यर्थः, तथा केनचित्सार्द्ध साधुना जल्पता नैव सावधारणं वचो वक्तव्यं यथा 'ध्रुवमेतत्' निश्चितं वृष्ट्या|दिक भविष्यतीत्येवं जानीयाद् अध्रुवं वा जानीयादिति । तथा कथञ्चित्साधु भिक्षार्थ प्रविष्टं ज्ञातिकुलं वा गतं चिरयन्तमुद्दिश्यापरे साधव एवं बचीरन् यथा-भुमहे वयं स तत्राशनादिकं लब्ध्वैव समागमिष्यति, यदिवा प्रियते। तदर्थं किञ्चित् नैवासौ तस्मालब्धलाभः समागमिष्यति, एवं तत्रैव भुक्त्वाऽभुक्त्वा वा समागमिष्यतीति सावधारणं न | वक्तव्यम् , अथ चैवंभूतां सावधारणां वाचं न ब्रूयाद् यथाऽऽगतः कश्चिद्राजादिनों वा समागतः तथाऽऽगच्छति न वा समागच्छति एवं समागमिष्यति न वेति, एवमत्र पत्तनमठादावपि भूतादिकालत्रयं योज्य, यमर्थं सम्यग् न जानीयात्तदेवमेवैतदिति न ब्रूयादिति भावार्थः, सामान्येन सर्वत्रगः साधोरयमुपदेशो, यथा-'अनुविचिन्त्य' विचार्य सम्यग्निश्चित्यातिशयेन श्रुतोपदेशेन वा प्रयोजने सति 'निष्ठाभाषी' सावधारणभाषी सन् 'समित्या' भाषासमित्या ॥३८६॥ 'समतया वा' रागद्वेषाकरणलक्षणया षोडशवचनविधिज्ञो भाषा भाषेत । यादग्भूता च भाषा भाषितव्या तां षोडश
%
3-
wwwonditimaryam
~777~#