________________
आगम
(०१)
प्रत
सूत्रांक [ ६४ ]
दीप
अनुक्रम
[३९८ ]
आ. सु. ६१
“आचार” - अंगसूत्र-१ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [१], मूलं [ ६४ ], निर्युक्तिः [३०४] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
Jan Estication Intational
'स्थानं' कायोत्सर्गः 'शय्या' संस्तारकः 'निपीधिका' स्वाध्यायभूमिः 'णो चेइज्ज'त्ति नो चेतयेत्-नो कुर्यादित्यर्थः ॥ एतद्विपरीते तु प्रत्युपेक्ष्य स्थानादीनि कुर्यादिति ॥ साम्प्रतं प्रतिश्रयगतानुगमादिदोषान् विभणिपुराह-'सः' भावभिक्षुर्यत्पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा - 'अस्सिंपडियाए 'त्ति एतत्प्रतिज्ञया एतान् साधून् प्रतिज्ञाय-उद्दिश्य प्राण्युपमर्देन साधु प्रतिश्रयं कश्चिच्छ्राद्धः कुर्यादिति । एतदेव दर्शयति एकं साधर्मिकं 'साधुम् अर्हाणीतधर्मानुष्ठायिनं सम्यगुद्दिश्य-प्रतिज्ञाय प्राणिनः 'समारभ्य' प्रतिश्रयार्थमुपमर्द्य प्रतिश्रयं कुर्यात्, तथा तमेव साधुं सम्यगुद्दिश्य 'क्रीतं' मूल्येनावातं, तथा 'पामिच्चं ति अन्यस्मादुच्छिन्नं गृहीतम् 'आच्छेद्यमिति भृत्यादेर्बलादाच्छिय गृहीतम् 'अनिसृष्टं' स्वामिनाऽनुत्सङ्कलितम् ' अभ्याहृतं ' निष्पन्नमेवान्यतः समानीतम्, एवंभूतं प्रतिश्रयम् 'आहृत्य' उपेत्य 'चेपइ'त्ति साधवे ददाति, तथाप्रकारे चोपाश्रये पुरुषान्तरकृतादौ स्थानादि न विदध्यादिति ॥ एवं बहुवचनसूत्रमपि नेयम् ॥ तथा साध्वीसूत्रमध्येकवचनबहुवचनाभ्यां नेयमिति ॥ किञ्च सूत्रद्वयं पिण्डेषणानुसारेण नेयं, सुगमं च ॥ तथास भिक्षुर्यत्पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा - भिक्षुप्रतिज्ञया 'असंयतः' गृहस्थः प्रतिश्रयं कुर्यात् स चैवंभूतः स्यात्, तद्यथा- 'कटकितः काष्ठादिभिः कुद्ध्यादौ संस्कृतः 'उकंबिओ'त्ति वंशादिकम्बाभिरवबद्धः 'छन्ने वत्ति दर्भादिभिश्छादितः लिप्तः गोमयादिना घृष्टः सुधादिखरपिण्डेन मृष्टः स एव लेवनिकादिना समीकृतः 'संसृष्टः ' भूमिकर्मादिना संस्कृतः 'संप्रधूपितः' दुर्गन्धापनयनार्थं धूपादिना धूपितः, तदेवंभूते प्रतिश्रयेऽपुरुषान्तरस्वीकृते यावदनासेविते स्थानादि न कुर्यात्, पुरुषान्तरकृतासेवितादौ प्रत्युपेक्ष्य स्थानादि कुर्यादिति ॥
For Pantry at Use Only
~726 ~#