________________
आगम
(०१)
प्रत
सूत्रांक
[ ६३ ]
दीप
अनुक्रम [३९७ ]
“आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [ २ ], उद्देशक [१], मूलं [६३...], निर्युक्ति: [ ३०१] मुनि दीपरत्नसागरेण संकलित....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
'यदा' यस्मिन् काले वर्त्तते सा तस्य षद्भावरूपा भावशय्या, शयनं शय्या स्थितिरितिकृत्वा, तथा रूपादिकायगतो गर्भत्वेन स्थितो यो जीवस्तस्य ख्यादिकाय एव भावशय्या, यतः ख्यादिकाये सुखिते दुःखिते सुप्ते उस्थिते वा तादृगवस्थ एव तदन्तर्वर्त्ती जीवो भवति, अतः कायविषया भावशय्या द्वितीयेति ॥ अध्ययनार्थाधिकारः सर्वोऽपि शय्याविषयः, उद्देशार्थाधिकारप्रतिपादनाय निर्युक्तिकृदाह
"सवेविय सिजविसोहि कारगा तहवि अत्थि उ बिसेसो । उद्देसे उसे वृच्छामि समासओ किंचि ॥३०२॥ 'सर्वेऽपि ' त्रयोsयुद्देशका यद्यपि शय्याविशुद्धिकारकास्तथाऽपि प्रत्येकमस्ति विशेषस्तमहं लेशतो वक्ष्य इति ॥ एतदेवाह
उग्गमदोसा पढमिल्लयंमि संसत्तपचवाया य १। वीयंमि सोअवाई बहुविहसिज्जाविवेगो २८ ॥ ३०३ ॥ तत्र प्रथमोद्देश वसतेरुद्गमदोषाः- आधा कर्मादयस्तथा गृहस्थादिसंसक्तप्रत्यपायश्च चिन्त्यन्ते ?, तथा द्वितीयोदेशके शौचवादिदोषा बहुप्रकारः शय्याविवेकश्च त्यागश्च प्रतिपाद्यत इत्ययमर्थाधिकारः २ ॥
तहए जयंतछलणा सज्झायस्सऽणुवरोहि जइयध्वं । समविसमाईएस य समणेणं निजरद्वाए ३ ॥ ३०४ ।। तृतीयोदेशके यतमानस्य उद्गमादिदोषपरिहारिणः साधोर्या छलना स्यात्तत्परिहारे यतितव्यं, तथा स्वाध्यायानुपरोधिनि समविषमादौ प्रतिश्रये साधुना निर्जरार्थिना स्थातव्यमित्ययमर्थाधिकारः ३ ॥ गतो निर्युक्तत्यनुगमः, अधुना सूत्रानुगमे सूत्रमुचारयितव्यं तच्चेदम्-
Etication Intemational
For Pan Prata Use On
प्रथम चूलिकायाः द्वितीय अध्ययनं “शयैषणा”, प्रथम उद्देशक: आरब्धः
~724 ~#
www.indiary.org