SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ आगम (०१) ཎྜལླཱཡྻ [४८] अनुक्रम [३८२] श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३४९ ॥ “आचार” - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [८], मूलं [४८], निर्युक्तिः [२९७] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः | स्मादग्रादेरानीयान्यत्र प्ररोहितानि किन्तु तत्रैवाग्रादौ जातानि तथा 'तक्कलिमत्थए ण वा' तक्कली - कन्दली 'ण' इति वा| क्यालङ्कारे तन्मस्तकं तन्मध्यवत्तीं गर्भः, तथा 'कन्दलीशीर्ष' कन्दलीस्तबकः, एवं नालिकेरादेरपि द्रष्टव्यमिति, अथवा कन्दल्यादिमस्तकेन सदृशमन्यद्यच्छिन्नानन्तरमेव ध्वंसमुपयाति तत्तथाप्रकारमन्यदामम्-अशस्त्रपरिणतं न प्रतिगृह्णीयादिति ॥ स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-इक्षं वा 'काणगं'ति व्याधिविशेषात्सच्छिद्रं, तथा 'अंगारकितं' विवर्णीभूतं, तथा 'सम्मिश्रं' स्फुटितत्वकू 'विगदूमिय'ति वृकैः शृगालैर्वा ईषद्भक्षितं, न ह्येतावता रन्धाद्युपद्रवेण तत्मासुकं भवतीति ॐ सूत्रोपन्यासः, तथा वेत्राग्रं 'कंदलीऊसुर्य'ति कन्दलीमध्यं, तथाऽन्यदप्येवंप्रकारमामम्-अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥ एवं लशुनसूत्रमपि सुगमं, नवरं 'चोअगं'ति कोशिकाकारा लशुनस्य बाह्यत्वक्, सा च यावत्सार्द्रा तावत्सचित्तेति ॥ 'अच्छियं'ति वृक्षविशेषफलं 'तेंदुयं'ति टेम्बरूयं 'वेलुयं'ति बिल्वं 'कासवनालियं'ति श्रीपणफलं, कुम्भीपक्कशब्दः प्रत्येकमभिसंबध्यते, एतदुक्तं भवति-यदच्छिकफलादिगर्त्तादावप्राप्तपाककालमेव बलात्पाकमानीयते तदामम् अपरिणतं न प्रतिगृह्णीयादिति ॥ 'कणम्' इति शाल्यादेः कणिकास्तत्र कदाचिन्नाभिः संभवेत् 'कणिककुण्डं' कणिकाभिर्मिश्राः कुक्कुसाः 'कणपूयलिअं 'ति कणिकाभिर्मिश्राः पूपलिकाः कणपूपलिकाः, अत्रापि मन्दपक्वादौ नाभिः संभाव्यते, शेषं सुगमं यावत्तस्य भिक्षोः 'सामग्र्यं' सम्पूर्णो भिक्षुभाव इति ॥ प्रथमस्याष्टमोदेशकः समाप्तः ॥ Jan Estication Initial For Pantry at Use Only २ १ ~703~# श्रुतस्कं० २ चूलिका १ पिण्डैष०१ उद्देशः ८ ॥ ३४९ ॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy