________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [१], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
दीप अनुक्रम [३३५]]
पर्यालोच्य गीतार्थो गृह्णीयादिति ॥ अथ कथञ्चिदनाभोगात्संसक्तमागामिसत्त्वोन्मिश्रं वा गृहीतं तत्र विधिमाह'से आहच्चे'त्यादि स च भावभिक्षुः 'आहचे ति सहसा संसक्तादिकमाहारजातं कदाचिदनाभोगात्प्रतिगृह्णीयात् , स चानाभोगो दातृप्रतिगृहीतृपदद्वयाच्चतुर्धा योजनीय इति, 'तम्' एवंभूतमशुद्धमाहारमादायकान्तम् 'अपक्रामेत्' गच्छेत् , तं 'अपक्रम्य, गत्वेति । यत्र सागारिकाणामनालोकमसम्पातं च भवति तदेकान्तमनेकधेति दर्शयति| अधारामे वा अथोपाश्रये वा अथशब्दोऽनापातविशिष्टप्रदेशोपसङ्ग्रहार्थः, वाशब्दो विकल्पार्थः शून्यगृहाद्युपसम-3 हार्थो वा, तद्विशिनष्टि-'अल्पाण्डे' अल्पशब्दोऽभाववचनः, अपगताण्ड इत्यर्थः, एवमल्पबीजेऽल्पहरिते 'अल्पाव| श्यायें अवश्याय उदकसूक्ष्मतुपारः, अल्पोदके, तथा 'अल्पोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानके तत्रोत्तिङ्गस्तृणाताउदकबिन्दुः [भुजीतेत्युत्तरक्रियया सम्बन्धः] पनकः-उल्लीविशेषः, उदकप्रधाना मृत्तिका उदकमृत्तिकेति, मर्कट:-सू
क्ष्मजीवविशेषस्तेषां सन्तानः, यदिवा मर्कटकसन्तानः-कोलियकः, तदेवमण्डादिदोषरहिते आरामादिके स्थण्डिले गत्वा ।
प्रारगृहीताहारस्य यत्संसक्तं तद् 'विविच्य विविच्य' त्यक्त्वा त्यक्त्वा, क्रियाऽभ्यावृत्त्याऽशुद्धस्य परित्यागनिःशेषतादमाह, 'उन्मियं वा' आगामुकसत्त्वसंवलितं सक्तुकादि ततः प्राणिनः 'विशोध्य विशोथ्य' अपनीयापनीय 'ततः तदनन्तरं शेषं शुद्धं परिज्ञाय सम्यग्यत एव भुञ्जीत पिबेद्वा रागद्वेषविप्रमुक्तः सन्निति, उक्तश्च-"बायालीसेसणसंकर्डमि
१ वाचत्वारिपादेषणासंकटे गहने जीव ! मैव छलितः । इदानी यथा न अन्यसे भुगन् रागद्वेषाभ्यां ( तथा प्रवर्तख ) ॥ १॥ रागेण साझार द्वषेण सधूमकं विजानीहि । रागद्वेषविमुक्तो भुनीत वा निजैराप्रेक्षी ॥२॥
82%4-5625584%A4%494
wwwandltimaryam
~648~#