________________
आगम
(०१)
प्रत
सूत्रांक
[1]
दीप
अनुक्रम
[३३५ ]
श्रीआचा
राङ्कवृत्तिः
(afto)
॥ ३२१ ॥
Jain Esticatos
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [१], निर्युक्तिः [२९७] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सिंसि वा गोमयरासिंसि वा अन्नयरंसि वा तहपगारंसि थंडिलंसि पडिलेहिय पडिलेहिय पमजिय पमजिय व संजयामेव परिट्टविजा || (सू० १ )
'से' इति मागधदेशीवचनतः प्रथमान्तो निर्देशे वर्त्तते यः कश्चिद्भिक्षणशीलो भावभिक्षुर्मूलोत्तरगुणधारी विविधाभिग्रहरतः 'भिक्षुणी वा' साध्वी, स भावभिक्षुर्वेदनादिभिः कारणैराहारग्रहणं करोति, तानि चामूनि “वेअण १ वेआवच्चे २ इरियट्ठाए य ३ संजमट्टाए ४ । तह पाणवत्तियाए ५ छद्धं पुण धम्मचिंताए ६ ॥ १ ॥" इत्यादि, अमीषां मध्येऽन्यतमेनापि कारणेनाहारार्थी सन् गृहपतिः - गृहस्थस्तस्य कुलं गृहं तदनुप्रविष्टः किमर्थ ? - 'पिंडवायपडियाए 'त्ति पिण्डपातो - भिक्षालाभस्तत्प्रतिज्ञया - अहमन्त्र भिक्षां लप्स्य इति स प्रविष्टः सन् यत्पुनरशनादि जानीयात्, कथमिति दर्शयति- 'प्राणिभिः' रसजादिभिः 'पनकैः' उल्लीजीवैः संसक्तं 'बीजैः' गोधूमादिभिः 'हरितैः' दूर्वाऽङ्कुरादिभिः 'उन्मिश्रं' शबलीभूतं तथा शीतोदकेन वा 'अवसिक्तम्' आद्रीकृतं 'रजसा वा' सचित्तेन 'परिघासियं' ति परिगुण्डितं, कियद्वा वक्ष्यति ? ' तथाप्रकारम्' एवं जातीयमशुद्धमशनादि चतुर्विधमप्याहारं 'परहस्ते' दातृहस्ते परपात्रे वा स्थितम् 'अप्रासुकं' सचित्तम् 'अनेषणीयम्' आधाकर्मादिदोषदुष्टम् 'इति' एवं मन्यमानः 'स' भावभिक्षुः सत्यपि लाभे न प्रतिगृह्णीयादित्युत्सर्गतः, अपवादतस्तु द्रव्यादि ज्ञात्वा प्रतिगृह्णीयादपि, तत्र द्रव्यं दुर्लभद्रव्यं क्षेत्रं साधारणद्रव्यलाभरहितं सरजस्कादिभावितं वा कालो दुर्भिक्षादिः भावो ग्लानतादिः, इत्यादिभिः कारणैरुपस्थितैरल्पबहुत्वं ॥ ३२१ ॥
१ वेदना वैयावृत्त्यर्थं च संयमार्थ च तथा प्राणप्रत्ययाय एवं पुनर्धर्मचिन्तायै ॥ १ ॥
For Prata Use Only
प्रथम चूलिकायाः प्रथम अध्ययनं “पिण्डैषणा, प्रथम उद्देशक: आरब्धः
श्रुतस्कं० २ चूलिका १
[ पिण्डेष० १ उद्देशः १
~647 ~#