________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [४], मूलं [२२६/गाथा-१],नियुक्ति: [२८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
उद्देशकः४
दीप
श्रीआचा- उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोदेशके भगवतः परीषहोपसर्गारावृत्तिःधिसहनं प्रतिपादितं, तदिहापि रोगातकपीडाचिकित्साव्युदासेन सम्यगधिसहते तदुत्पत्ती च नितरां तपश्चरणायोद्य(शी०) पच्छतीत्येतत्प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्॥३१ ॥
ओमोयरियं चाएइ अपुढेऽवि भगवं रोगेहिं । पुढे वा अपुढे वा नो से साइजई तेइच्छं ॥१॥ संसोहणं च वमणं च गायन्भंगणं च सिणाणं च । संवाहणं च न से • कप्पे दन्तपक्खालणं च परिन्नाए ॥२॥ विरए गामधम्मेहिं रीयइ माहणे अबहुवाई। सिसिमि एगया भगवं छायाए झाइ आसीय ॥३॥ आयावइ य गिम्हाणं अच्छइ
उकुडुए अभित्तावे । अदु जाव इत्थ लूहेणं ओयणमंथुकुम्मासेणं ॥४॥ अपि शीतोष्णदंशमशकाकोशताडनाद्याः शक्याः परीपहाः सोढुं न पुनरवमोदरता, भगवांस्तु पुना रोगैरस्पृष्टोऽपि वातादिक्षोभाभावेऽप्यवमौदर्य न्यूनोदरतां शक्नोति कर्तुं, लोको हि, रोगैरभिद्रुतः संस्तदुपशमनायावमोदरतां विधत्ते
भगवास्तु तदभावेऽपि विधत्त इत्यपिशब्दार्थः, अथवाऽस्पृष्टोऽपि कासश्वासादिभिर्द्रव्यरोगैः अपिशब्दात्स्पृष्टोऽप्यसवेदनीSIयादिभिर्भावरोगैन्यूनोदरतां करोति, अथ किं द्रव्यरोगातङ्का भगवतो न प्रादुष्ष्यन्ति येन भावरोगैः स्पृष्ट इत्युक्तं ?,
तदुच्यते, भगवतो हि न प्राकृतस्येव देहजाः कासश्वासादयो भवन्ति, आगन्तुकास्तु शस्त्रप्रहारजा भवेयुः, इत्येतदेव
अनुक्रम [३१८]
॥३१२॥
wwwandltimaryam
| नवम-अध्ययने चतुर्थ-उद्देशक: 'आतंकित' आरब्ध:,
~628~#