________________
आगम
(०१)
प्रत
सूत्रांक
||23||
दीप
अनुक्रम
[३१६]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ९ ], उद्देशक [३], मूलं [ २२६ / गाथा - १२], निर्युक्तिः [२८४] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
च-मांसानि च तत्र भगवतच्छिन्न पूर्वाणि एकदा कायमवष्टभ्य - आक्रम्य तथा नानाप्रकाराः प्रतिकूलपरीपहाश्च भगवन्तमलुचिपुः, अथवा पांसुनाऽवकीर्णवन्त इति । किं च भगवन्तमूर्ध्वमुत्क्षिप्य भूमौ 'निहतवन्तः' क्षिप्तवन्तः, अथवा 'आसनात्' गोदोहिकोत्कुटुकासनवीरासनादिकात् 'स्खलितवन्तो' निपातितवन्तः, भगवांस्तु पुनर्युत्सृष्टकायः परीषहसहनं प्रति प्रणत आसीत्, परीपहोपसर्गकृतं दुःखं सहत इति दुःखसहो भगवान्, नास्य दुःखचिकित्साप्रतिज्ञा विद्यत इत्यप्रतिज्ञः ॥ कथं दुःखसहो भगवानित्येतदृष्टान्तद्वारेण दर्शयितुमाह
सुरो सङ्गामसीसे वा संबुडे तत्थ से महावीरे । पडिसेवमाणे फरुसाई अचले भ गवं रीत्थिा ॥ १३ ॥ एस विही अणुक्कन्तो० जाव रीयं ॥ १४ ॥ तिबेमि ९ - ३ ॥
यथा हि संग्रामशिरसि 'शूर' अक्षोभ्यः परैः कुन्तादिभिर्भिद्यमानोऽपि वर्म्मणा संवृताङ्गो न भङ्गमुपयातीति, एवं स भगवान्महावीरः 'तंत्र' लाढादिजनपदे परीपहानी कतुद्यमानोऽपि प्रतिसेवमानश्च 'परुषान' दुःखविशेषान् मेरुरिवाचलो - निष्प्रकम्पो धृत्या संवृताङ्गो भगवान् 'रीयते स्म ' ज्ञानदर्शनचारित्रात्मके मोक्षाध्वनि पराक्रमते स्मेति ॥ उद्देशकार्थमुपसंजिहीर्षुराह- 'एस विहीत्यादि पूर्ववद् । उपधानश्रुताध्ययनस्य तृतीयोदेशकः परिसमाप्तः ॥
Jan Estication national
For Pantry Use Only
~627 ~#