________________
आगम
(०१)
प्रत
सूत्रांक
[२२६]
दीप
अनुक्रम
[२६४]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [१], मूलं [२२६...],निर्युक्तिः [२८४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०१], अंग सूत्र -[०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
प्रतिसमयं सङ्क्रामयति, तत्रापि प्रथमसमये स्तोकं द्वितीयादिष्वसङ्ख्येयगुणं एवं यावच्चरमसमये सर्वसङ्क्रमेणावलिकागतं मुक्तवा सर्व सङ्क्रामयति, आवलिकागतमपि स्तिबुकसङ्क्रमेण वेद्यमानास्वपरप्रकृतिषु सङ्क्रामयति, एवमनन्तानुबन्धिनो विसंयोजिता भवन्ति । इदानीं दर्शन त्रिकोपशमना भण्यते तत्र मिथात्वस्योपशमको मिथ्यादृष्टिर्वेदकसम्यग्दृष्टिर्वा सम्यक्त्वसम्यग्मिथ्यात्वयोस्तु वेदक एवोपशमकः, तत्र मिथ्यात्वस्योपशमं कुर्वस्तस्यान्तरं कृत्वा प्रथमस्थितिं विपाकेनानुभूयोपशान्तमिथ्यात्वः सनुपशमसम्यग्दृष्टिर्भवतीति । साम्प्रतं वेदकसम्यग्दृष्टिरुपशमश्रेणिं प्रतिपद्यमानोऽनन्तानुबन्धिनो विसंयोज्य संयमे वर्त्तमानो दर्शन त्रिकमुपशमयत्यनेन विधिना, तत्र यथाप्रवृत्तादीनि प्राग्वत्रीणि करणानि | कृत्वाऽन्तरकरणं कुर्वन् वेदकसम्यक्त्वस्य प्रथमस्थितिमान्तमौहूर्त्तिकीं करोति, इतरां त्वावलिकामात्रां ततः किञ्चिन्यून| मुहूर्त्तमात्रां स्थितिं खण्डयित्वा बध्यमानानां प्रकृतीनां स्थितिबन्धमात्रेण कालेन तत्कर्म्मदलिकं सम्यक्त्वप्रथमस्थिती प्र क्षिपनेत्येवमनया प्रक्रियया सम्यक्त्वबन्धाभावादन्तरं क्रियमाणं कृतं भवति, मिथ्यात्वसम्यग्मिथ्यात्वप्रथम स्थितिदलिकमाव|लिकामात्रपरिमाणं सम्यक्त्वप्रथम स्थिती स्तिबुकसङ्क्रमेण सङ्क्रमयति, तस्यामपि सम्यक्त्वप्रथमस्थितौ क्षीणायां सत्यामु| पशान्तदर्शनत्रिको भवतीति । तदनन्तरं चारित्रमोहनीयमुपशमयन् पूर्ववत् करणत्रयं करोति, नवरं यथाप्रवृत्तकरणमप्रमत्तगुणस्थान एव भवति, द्वितीयं त्वपूर्वकरणमष्टममेव गुणस्थानकं, तस्य च प्रथमसमय एव स्थितिघातरसघातगुणश्रेणिगुणसङ्कमा पूर्वस्थितिबन्धा यौगपद्येन पञ्चाप्यधिकाराः प्रवर्त्तन्ते तत्रापूर्वकरणसङ्ख्येयभागे गते निद्राप्रचलयोर्बन्धव्यवच्छेदो भवति, ततोऽपि बहुपु स्थितिकण्डकसहस्त्रेषु गतेषु सत्सु परभविकनाम्नां चरमसमये त्रिंशतो नाम
For Pantry Use Only
~601~#