SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [१], मूलं [२२६...], नियुक्ति: [२८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक [२२६] सु पदेवायोज्या, तथा 'धूनन' भिन्नग्रन्थेरनिवर्तिकरणेन सम्यक्त्वावस्थानं, तथा 'नाशनं' कर्मप्रकृतेः स्तिबुकसङ्कमेण प्रकृत्यन्तरगमनं, तथा 'विनाशनं शेलेश्यवस्थायां सामस्त्येन कम्ाभावापादनं, तथा ध्यापनम्-उपशमश्रेण्या कर्मानुदयलक्षणं विध्यापनं, तथा 'क्षपणम्' अप्रत्याख्यानादिप्रक्रमेण क्षपक श्रेण्यां मोहाद्यभावापादनं, तथा 'शुद्धिकर'मित्यनन्तानुवन्धिक्षयप्रक्रमेण क्षायिकसम्यक्त्वापादनं, तथा 'छेदनम् उत्तरोत्तरशुभाध्यवसायारोहणास्थितिहासजननं, तथा 'भेदनं' बादरसम्परायावस्थायां सञ्जवलनलोभस्य खण्डशो विधानं, तथा 'फेडण'न्ति अपनयनं चतुःस्थानिकादीनामशुभप्रकृतीनां रसतख्यादिस्थानापादनं, तथा 'दहन केवलिसमुद्घातध्यानाग्निना वेदनीयस्य भस्मसात्करणं, शेषस्य च दग्धरज्जुतुल्यत्वापादनं, तथा 'धावन' शुभाध्यवसायान्मिथ्यात्वपुद्गलानां सम्यक्त्वभावसंजननमिति, एताश्च कर्मणोऽवस्थाः प्रायश उपशमश्रेणिक्षपकश्रेणिकेवलिसमुद्घातशैलेश्यवस्थाप्रकटनेन प्रभूता आविर्भाविता भवन्तीत्यतस्तत्प्रकटनाय प्रक्रम्यते, तत्रोपशमश्रेण्यामादावेवानन्तानुबन्धिनामुपशमना तावत्कथ्यते, इहासंयतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तानामन्यतरोऽन्यतरयोगे वर्तमान आरम्भको भवति, तत्रापि दर्शनसप्तकमेकेनोपशमयति, तद्यथा-अनन्तानुबन्धिनश्चतुरा, उपरितनलेश्यात्रिके च विशुद्धे साकारोपयोग्यन्ताकोटीकोटीस्थितिसत्कर्मा परिवर्तमानाः शुभप्रकृतीरेव चनन प्रतिसमयमशुभप्रकृतीनामनुभागमनन्तगुणहान्या हासयन् शुभानां चानन्तगुणवृदयाऽनुभागं व्यवस्थापयन् पस्योपमासख्येयभागहीनमुत्तरोत्तरं स्थितिबन्धं कुर्वन् करणकालादपि पूर्वमन्तर्मुहर्त विशुध्यमानः करणत्रयं विधत्ते, तच्च प्रत्येकमान्तमौहर्तिक, तद्यथा-यथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं चेति, चतुर्युप दीप अनुक्रम २६४] SaintaicatunintIC ~599~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy