________________
आगम (०१)
प्रत
सूत्रांक
[२२६]
दीप
अनुक्रम [२६४]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [१], मूलं [२२६...],निर्युक्तिः [२८१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०१], अंग सूत्र -[०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचा- १ यत् श्रुतं द्रव्यार्थ वा यत् श्रुतं कुप्रावचनिकश्रुतानि चेति द्रव्यश्रुतम्, भावश्रुतं त्वङ्गानङ्गप्रविष्टश्रुतविषयोपयोगः ॥ राङ्गवृत्तिः तत्र सुगमनामस्थापनाव्युदासेन द्रव्याद्युपधानप्रतिपादनायाह
(शी०) 2
॥ २९७ ॥
दव्वहाणं सयणे भाववहाणं तवो चरित्तस्स । तम्हा उ नाणदंसणतवचरणेहिं इहाहिगयं ॥ २८२ ॥ उप-सामीप्येन धीयते - व्यवस्थाप्यत इत्युपधानं द्रव्यभूतमुपधानं द्रव्योपधानं तत्पुनः शय्यादौ सुखशयनार्थ शिरोऽवष्टम्भनवस्तु, 'भावोपधानमिति भावस्योपधानं भावोपधानं, तत्पुनर्ज्ञानदर्शनचारित्राणि तपो वा सबाह्याभ्यन्तरं, तेन हि चारित्रपरिणतभावस्योपष्टम्भनं क्रियते, यत एवं तस्मात् ज्ञानदर्शनतपश्चरणैरिहाधिकृतमिति गाथार्थः ॥ किं पुनः | कारणं चारित्रोपष्टम्भकतया तपो भावोपधानमुच्यते इत्याह
जह खलु मइत्थं सुज्झइ उदगाइएहिं दव्वेहिं । एवं भावुवहाणेण सुज्झए कम्ममट्ठविहं ॥ २८३ ॥ 'येथे' त्युदाहरणोपन्यासार्थः यथैतत्तथाऽन्यदपि द्रष्टव्यमित्यर्थः, खलुशब्दो वाक्यालङ्कारे, यथा मलिनं वस्त्रमुदकादिभिर्द्वव्यैः शुद्धिमुपयाति एवं जीवस्यापि भावोपधानभूतेन सबाह्याभ्यन्तरेण तपसा अष्टप्रकारं कर्म्म शुद्धिमुपयातीति ॥ अस्य च कर्मक्षयहेतोस्तपस उपधानश्रुतत्वेनात्रोपात्तस्य 'तत्त्वभेदपर्यायैर्व्याख्ये तिकृत्वा पर्यायदर्शनायाह-यदिवा तपोऽनुष्ठानेनापादिता अवधूननादयः कर्म्मापगमविशेषाः सम्भवन्तीत्यतस्तान् दर्शयितुमाह
ओधूणण धुणण नासण विणासणं झवण खवण सोहिकरं। छेयण भेयण फेडण डहणं धुवणं च कम्माणं ॥ २८४॥ तत्रावधूननम् - अपूर्वकरणेन कर्म्मग्रन्थेर्भेदापादनं तच्च तपोऽन्यतरभेद सामर्थ्याद्भवतीत्येषा क्रिया शेषेष्वप्येकादश
Jan Estication matinal
For Pantry O
~598 ~#
उपधा० ९
उद्देशकः १
॥ २९७ ॥