________________
आगम
(०१)
प्रत
सूत्रांक
[२२२]
दीप
अनुक्रम [२३५ ]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ८ ], उद्देशक [६], मूलं [२२२],निर्युक्तिः [२७५] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
साकारं प्रत्याख्यानं, साकारप्रत्याख्यानस्यान्यस्मिन्नपि काले जिनकल्पिकादेरसम्भवात् किं पुनर्यावत्कथिक भक्तप्रत्याख्यानावसर इति, इत्वरं हि रोगातुरः श्रावको विधत्ते, तद्यथा - यद्यहमस्माद्रोगात् पञ्चषैरहोभिर्मुक्तः स्यां ततो भोक्ष्ये, नान्यथेत्यादि, तदेवमित्वरम् - इङ्गितमरणं धृतिसंहननादिवलोपेतः स्वकृतत्वग्वर्त्तनादिक्रियो यावज्जीवं चतुर्विधाहारनियमं | कुर्यादिति, उक्तं च- "पश्ञ्चक्खद आहारं चउन्विहं नियमओ गुरुसमीवे । इंगियदेसंमि तहा चिपि हु नियमओ कुइ ॥ १ ॥ उब्बत्तइ परिअत्तर काइगमाईऽवि अप्पणा कुणइ । सव्वमिह अप्पणचि ण अन्नजोगेण धितिबलिओ ॥ २ ॥ तच्चेङ्गितमरणं किम्भूतं किम्भूतश्च प्रतिपद्यत इत्याह- 'तद्' इङ्गितमरणं सद्भयो हितं सत्यं, सुगतिगमनाविसंवादनात्सर्वज्ञोपदेशाच्च सत्यं तथ्यं, तथा स्वतोऽपि सत्यं वदितुं शीलमस्येति सत्यवादी, यावज्जीवं यथोक्तानुष्ठानाद्य| थाऽऽरोपित प्रतिज्ञाभारनिर्वहणादित्यर्थः, तथा 'ओजः' रागद्वेषरहितः, तथा 'तीर्णः' संसारसागरं, भाविनि भूतवदुपचारात्तीर्णवतीर्ण इत्यर्थः तथा 'छिन्ना' अपनीता 'कथं कथमपि या 'कथा' रागकथादिका विकथारूपा येन स छिन्नकथंकथः, यदिवा कथमहमिङ्गितमरणप्रतिज्ञां निर्वहिष्ये इत्येवंरूपा या कथा सा छिन्ना येन स छिन्नकथंकथः, दुष्करानुष्ठानविधायी हि कथंकधी भवति, स तु पुनर्महापुरुषतया न व्याकुलतामियादिति, तथा आ-समन्तादतीव इताज्ञाता परिच्छिन्ना जीवादयोऽर्था येन सोऽयमातीतार्थः आदत्तार्थो वा यदिवाऽतीताः - सामस्त्येनातिक्रान्ताः अर्थाः
१ प्रत्याख्याति आहारं चतुर्विधं नियमाद् गुरुसमीपे इतिदेशे तथा चेष्ठामपि नियमतः करोति ॥ १ ॥ उद्वर्तते परिवर्तते कायिकयापि आत्मना करोति । सबै महात्मनैव नान्ययोगेन धृतिवलिकः ॥ २ ॥
Jan Estication matinal
For Parts Only
~575~#